________________
चन्द्रकला-कलाविलासाख्यटोकाद्वयसमलड्कृतम् ।
१३
* चन्द्रकला निरुक्तमूलोक्तलक्षणानां दुष्टलक्षणत्वे पर्वतो धूमवान् वढेरित्यादौ धूमा भाववत्तित्वविशिष्टवह्निरूपव्यभिचारनिश्चयाभावस्य प्रकृतानुमितिकारणीभूतस्य प्रतियोगिव्यभिचारनिश्चयविषयताया व्यभिचारिणि दुष्टे वह्नौ सत्त्वेन वयादिदु? दुष्टलक्षणसमन्वयसम्भवेऽपि हृदो वह्निमान् धूमादित्यादौ बाधितधूमादिहेतावव्याप्तिः। हृदधर्मिकवलयनुमितिकारणीभूताभावप्रतियोगिवनयभावविशिष्टहृदनिश्चयात्मकयथार्थज्ञानविषयताया वह्नयभावविशिष्टहृदनिष्ठाया धूमादिदुष्टहेतौ विरहात् । __नच वह्नयभाववान् हृदो धूमश्चति समूहालम्बनयथार्थनिश्चयस्यापि हृदर्मिकवह्नयाद्यनुमितिकारणीभूताभावप्रतियोगितया तादृशनिश्चयविषयताया धूमेऽपि सत्त्वात् धूमादौ बाधिते दुष्टे लक्षणसमन्वयःसम्भवतीति वाच्यम् ; तथा सत्युक्तरीत्योक्तस्थले घटादावुदासीनेऽतिव्याप्स्यापत्तः, हृदधर्मिकवह्वयाद्यनुमितिकारणीभूताभावप्रतियोगिनो हृदो वह्निमान् घटश्चेत्याकारकसमूहालम्बनयथार्थनिश्चयस्य विषयताया घटेऽपि सत्वात् । अतो निरुक्तोदासीनघटादावतिव्याप्तिवारणाय यथार्थ
* कलाविलासः नचानुमितिकारणीभूतो यस्तत्प्रतियोगियथार्थज्ञानविषयत्वस्यैव सम्यक्त्वे अभावपदोपादानं व्यर्थमिति वाच्यम् , सिषाधयिषाविरहविशिष्ट सिद्धय भावभिन्नत्वलाभायैवाभावपदोपादानसार्थक्यसम्भवात् । अन्यथा अनुमितिकारणीभूततादृशसिद्धयभावप्रतियोगिसिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिः स्यादिति वदन्ति ।
वस्तुतस्तु पर्वतो वह्निमान् धूमादित्यादौ । परामर्शावच्छिन्नभिन्नभेदस्य. अनुमितिकारणीभूतपरामर्शरूपतया तत्प्रतियोगिपरामर्शावच्छिन्नभिन्नस्य यथार्थज्ञानात्मकघटज्ञानस्य विषयत्वमादाय घटेऽतिव्याप्तिः स्यादतोऽभावपदोपादानम् , तदुपादाने तु अनुमितिकारणतावच्छेदकाभावत्वरूपानुयोगितानिरूपितप्रतियोगिताश्रययथार्थज्ञानविषयत्वस्यैव लक्षणार्थतया न कोऽपि दोषः । परामर्शावच्छिन्नभिन्न-- भेदस्वरूपे परामर्श अनुमितिकारणतावच्छेदकाभावत्वरूपानुयोगिताया विरहादिति तु नव्याः । ___ ज्ञानपदानुपादाने पर्वतो वह्निमान् धूमादित्यादौ अनुमितिकारणीभूताभावप्रतियोगिकामिनीजिज्ञासाविषयत्वमादाय कामिनीज्ञानेऽतिव्याप्तिः स्यादतस्तदुपादानम् ।
न च पर्वतो वह्निमान् कामिनी चेत्याकारकसमूहालम्बनानुमितौ कामिनीजिज्ञासाप्रतिबध्यत्वविरहान्न कामिनीज्ञानेऽतिव्याप्तिरिति वाच्यम् , यादृशस्थलविशेषे तादृशसमूहालम्बनानुमितिः कस्यापि न जाता तादृशस्थले कामिनीजिज्ञासाविषयेऽतिव्याप्तिवारणाय ज्ञानपदोपादानसार्थक्यसम्भवादिति ध्येयम् ।
"Aho Shrutgyanam"