________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ।
* गादाधरी मूलोक्तलक्षणानां दुष्टहेतुलक्षणत्वे दोषेष्वतिव्याप्तिः,
* चन्द्रकला * 'यथाश्रुतमिद"मित्यादिदीधितिमवतारयति टीकायां मूलोक्तेति । मूलोक्तानामनुमितीत्यादिलक्षणानां त्रयाणामित्यर्थः । दुष्टलक्षणत्वे = बाधादिदोषविशिष्टानां हेतूनां लक्षणत्वे । दोषेषु = बाधादिषु । अतिव्याप्तिरिति । हृदो वह्निमान् धूमादित्यादौ हृदधर्मिकवह्नयनुमितिकारणीभूतस्य वह्नयभावविशिष्टहदादिनिश्चया: भावस्य प्रतियोगिनो वह्नयभावविशिष्टहृदादिनिश्चयस्य यथार्थज्ञानस्य विषयताया वह्नयभावविशिष्टहदाद्यात्मकबाधादौ दोषे सत्त्वादिति हृदयम् ।
* कलाविलासः के अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमिति चिन्तामणिः । तथाच प्रकृतानुमितित्वावच्छिन्न कार्यतानिरूपितकारणतावान् योऽभावस्तत्प्रतियोगियथार्थज्ञानविषयत्वमिति फलितम् ।
कारणतायाः किश्चित्कार्यतापेक्षताप्रदर्शनार्थमनुमितित्वावच्छिन्नेति । शाब्दादौ उपनीतभानादौ च तदभावनिश्चयस्य प्रतिबन्धकत्वेऽपि तद्विषयस्य न दोषत्वं, दोषाणामनुमितिप्रतिरोधफलकत्वादिति शाब्दादिकं विहायानुमितीत्युक्तमिति ध्येयम् ।
न च कार्यतापदोपादानं व्यर्थ, अनुमितित्वावच्छिन्नं यत् तन्निरूपितकारणतावदभावप्रतियोगियथार्थज्ञानविषयत्वस्यैव सम्यक्त्वादिति वाच्यम् , तथासति पर्वतो वह्निमानित्याकारकानुमितिविषये वह्निमत्पर्वतेऽतिव्याप्त्यापत्तेः, पर्वतो वह्निमानित्याकारकानुमित्यभावप्रत्यक्षे तादात्म्यसम्बन्धेन तादृशानुमित्यभावस्य हेतुत्ववादिनां मते तादृशानुमिनिस्वावच्छिन्ना या प्रतियोगित्वसम्बन्धावच्छिन्नावच्छेदकता तन्निरूपित कारणतावतस्तादृशानुमित्यभावस्य प्रतियोग्यनुमितिरूपयथार्थज्ञानविषय. ताया वह्निमत्परते सत्त्वादिति नव्याः ।।
) कारणतापदानुपादाने पर्वतो वह्निमानित्याकारकानुमित्यभाववद्ध्दपक्षकवह्निसाध्यकस्थले वह्निमत्पर्वतेऽतिव्याप्तिः, तादृशानुमितित्वावच्छिन्नकार्यतानिरूपिता या स्वावच्छिन्नविशेष्यताकत्वसम्बन्धावच्छिन्नावच्छेदकता तदाश्रयतादृशानुमित्यभावप्रतियोग्यनुमित्यात्मकयथार्थज्ञान विषयताया वह्निमत्पर्वते वृत्तित्वादिति ध्येयम् । ___ अनुमितिकारणाभाव इत्युक्तौ तादृशकारणस्याभावः कारणाभाव इति षष्ठीसमासशंका स्यात्, तथाच वह्निव्याप्यधूमवान् पर्वत इत्याकारकपरामर्शविषये वहिव्याप्यधूमवत्पर्वतेऽतिव्यातिः, तस्यापि अनुमितिकारणाभावप्रतियोगिपरामर्शात्मकयथार्थज्ञानविषयत्वादतः कर्मधारयलाभार्थ भूतपदमिति प्राञ्चः।
"Aho Shrutgyanam"