SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयसमलङ्कृतम् । ११ * चिन्तामणिः * तत्राऽनुमितिकारणीभूताऽभावप्रतियोगियथार्थज्ञानविषयत्वम् । * चन्द्रकला ६ मूले तत्रेति । यथोक्तनिरूपणे इत्यर्थः । विषयत्वं सप्तम्यर्थः, अन्वयश्चास्म हेत्वाभासस्वमित्यनेन । अनुमितीति । अनुमितिपदस्य प्रकृतपक्षविशेष्यकसाध्यप्रकारकानुमिति-तत्कारणपरामर्शान्यतरपरत्वम् प्रकृतपक्षविशेष्यकप्रकृतसाध्यव्याप्यप्रकृतहेतुप्रकारकप्रकृतसाध्यप्रकारकसमूहालम्बनानुमितिपरत्वं वा स्वयमग्रे दीधितिकृतैव प्रदर्शयिष्यते, तथा च तादृशानु मितेः कारणतावान् योऽभावस्तत्प्रतियोगियत् यथार्थज्ञानं तद्विषयत्वं हेत्वाभासत्वमिति समुदितप्रथमलक्षणार्थः पर्यवसितः । भवति हि ह्रदो वह्निमान् वटवादित्यादौ वह्नयभाववद्वत्तित्वविशिष्टघटत्यरूपव्यभिचारे, वह्नयाधिकरणवृत्तित्वाभावविशिष्टघटत्वस्वरूपे विरोधे, घटत्वाभावविशिष्टहदरूपाऽसिद्धौ, वलयभावव्याप्यवद्धदरूपे सत्प्रतिपक्षे, वह्नयभाववदधदात्मके बाधे च लक्षणसमन्वयः। निरुक्तव्यभिचारनिश्चयाभावस्य विरोधनिश्चयाभावस्य स्वरूपासिद्धिनिश्चयाभावस्य च प्रतिबन्धकाभावत्वेन हृदधर्मिकवह्नयनुमितिकारणीभूतवह्निव्याप्यघटत्ववान् हृद इत्याकारकपरामर्श प्रति कारणतया यथोक्तानुमितिकारणतावान् यो व्यभिचारादि-निश्चयाभावस्त प्रतियोगि यत् व्यभिचारादिनिश्चयात्मकं यथार्थज्ञानंतद्विषयत्वस्य व्यभिचारादौ, निरुक्तसत्प्रतिपक्षनिश्चयाभावस्य बाधनिश्चयाभावस्थापि प्रतिबन्धकाभावत्वेन हृदविशेष्यकवयनुमितिकारणतया अनुमितिकारणीभूतस्य सप्रतिपक्षादिनिश्चयाभावस्य प्रतियोगि यत् सत्प्रतिपक्षादिनिश्चयात्मक यथार्थज्ञानं तद्विषयत्वस्य सत्प्रतिपक्षादो च सत्त्वात् । एवं अयं वह्निमान् जलवादित्यादौ यतिव्यापकीभूताभावप्रतियोगिजलरूपासाधारण्ये, सर्वमनित्यं मेयत्वादित्यादौ नित्यत्वव्यापकीभूताभावप्रतियोगित्वाभावविशिष्टप्रमेयत्वरूपानुपसंहारित्वे, काञ्चनमयपर्वतः काञ्जनमयवह्निमान् काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभावविशिष्टपर्वतस्वरूपाश्रयासिद्धौ, काञ्चनमयत्वाभावविशिष्ट वह्निरूपसाध्याप्रसिद्धौ, काञ्चनमयवाभावविशिष्टधूमरूपसाधनाप्रसिद्धौ च असाधारण्यादिनिश्चयाभावस्यापि पूर्वोक्तानुमितौ कारणतया निरुकाभावप्रतियोग्यसाधारण्यादिनिश्चयविषयताया असाधारण्यादौ वर्तमानत्वालक्षणसमन्वयो बोध्य इति दिक् । "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy