________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ।
* गादाधरी देतोयाप्त्यादिविशिष्टत्वरूपसद्धेतुत्वज्ञानमिव विपरीतकोटिसाधकहेतोदुष्टत्वज्ञानमप्युपयुज्यते,प्रकृतसाध्यग्रहाऽप्रामाण्यग्राहकविपरीतकोटिसाधकहेत्वदुष्टत्वग्रहविघटकत्वात् ।
विजयप्रयोजकत्वं च हेत्वाभासस्य स्वज्ञानाधीनपरोक्तहेतुदोषोद्भावनद्वारा, व्याप्त्यादिविशिष्टहेतोश्च स्वज्ञानाधीनसन्यायप्रयोगद्वारेति बोध्यम् ।
8 चन्द्रकला वन्यादिसाध्यानुमापकधूमादिहेतोः । व्याप्त्यादीति । आदिना पक्षधर्मतापरिग्रहः । वह्वयादिव्याप्तिपक्षधर्मताविशिष्टत्वरूपं यत् सद्धे तुत्वं तज्ज्ञानमिवेत्यर्थः । विपरीतेति = वयादिविपरीतवलयाद्यभावसाधकजलादिहेतोरित्यर्थः । दुत्व ज्ञा. नम् = हेत्वाभासत्यज्ञानम् । उपयुज्यते = प्रयोजकं भवति । यथोक्तप्रमास्वनिश्चये दुष्टत्वज्ञानस्योपयोगितां घटयति प्रकृतेति । पर्वतादिधर्मिकवह्नयाद्यसतिरूप. साध्यज्ञाने उत्पद्यमानो योऽप्रमावग्रहस्तजनकीभूतं यत् वहयादिविपरीतवलय भावादिसाधकजलादिहेतावदुष्टत्वज्ञानं तदनुत्पादप्रयोजकत्यादित्यर्थः ।।
तथाच पर्वतादी वह्वयाद्यनुमितिरूपसाध्यवत्ताज्ञाने वह्निमति बलिप्रकारकज्ञानत्वरूपप्रमास्वनिश्चये तादृशसाध्यवत्ताज्ञाने वह्निमति वहिप्रकारकस्वाभावनिश्चयात्मकाप्रामाण्यनिश्चयः प्रतिबन्धकः, निरुक्ताप्रामाण्यनिश्चये च बतिविपरीतवह्नयाद्यभावसाधकजलादिहेतावदुष्टत्वज्ञान प्रयोजकं, ताशादुष्टत्वज्ञान प्रति जलादिहेतौ दुष्टत्वज्ञान प्रतिबन्धकं भवतीति तादृशदुष्टत्वज्ञानेनादुष्टत्वज्ञानानु. स्पादे कारणाभावादप्रामाण्यग्रहस्यानुत्पत्ती, अप्रामाण्यग्रहाभावे च प्रतिबन्धकाभावात् भवति तादृशसाध्यग्रहे प्रमात्यनिश्चय इति निरुक्तप्रमारवनिश्चयं प्रति परम्परया दुष्टजलादिहेतोः प्रयोजकत्वमक्षतमिति भावः।
ननूक्तरीत्या सद्धेतौ दुष्ट हेतौ च तत्त्वनिर्णयप्रयोजकत्वसम्भवेऽपि विजयप्रयोजकत्वं तत्र कथं सम्पादनीयमित्यत आह विजयेति । परकीयाहङ्कारखण्डन विजयः, अहमस्मादुत्कृष्ट इत्याकारकज्ञानजन्यसंस्कारविशेषोऽहंकारः, तन्नाशानुकूलव्यापारो विजयस्तत्प्रयोजकत्वञ्चेत्यर्थः । हेत्वाभासस्य = दुष्टहेतोः। स्वज्ञानेति । स्वं हेत्वाभासः तज्ज्ञानजन्यं यत् परकीयहेतौ दोषोद्भावनं दोषाभिधानं तद्वारेत्यः । तथाच हेत्वाभासज्ञानात् परोक्तहेतौ दोषाभिधानंततस्तादृशविजय इति हेत्वाभासस्य हेत्वाभासज्ञाननिष्टकारणतावच्छेदकतयैव विजयप्रयोजकत्वमिति हृदयम्। व्याप्त्यादीति । व्याप्तिपक्षधर्मताविशिष्टसद्धेतोरित्यर्थः । स्वज्ञानेति । स्वम् = तादृशसद्धेतुः तज्ज्ञानाधीनो यः प्रतिज्ञादिपञ्चवाक्यात्मकसन्न्यायप्रयोगः, तद्द्वारेत्यर्थः । अत्रापि हेतुज्ञाननिष्टविजयकारणतावच्छेदकतयैव सधेत विजयप्रयोजकत्वमिति तस्वम् ।
"Aho Shrutgyanam"