________________
चन्द्रकला-कलाविलासाख्यटोकाद्वयसमलङ्कृतम् ।
* गादाधरी अथवा-तत्त्वनिर्णयः साध्यवत्ताज्ञाने प्रमात्वनिश्चयः । तत्राऽनुमापक
* चन्द्रकला * यक्षधर्मताविशिष्टप्रकृतधूमहेतुज्ञानरूपवह्निव्याप्यधूमथान् पर्वत इत्याकारकपरामर्शस्य जनकतया तादृशजनकतावच्छेदकतया च यथा वह्निव्याप्तिपक्षधर्मताविशिष्टधूमहेतोस्तत्र प्रयोजकत्वं सर्ववादिसिद्धम्, तथा वह्निविपरीतवन्यभावसाधकदुष्टजलहेतोरपि प्रयोजकतावच्छेदकतयैव प्रमितवह्निकोटिनिश्चये प्रयोजकत्वं सम्भवत्येव, वयभावसाधकजलहेतौ दुष्टत्वज्ञानस्य वह्नयभावव्याप्यजलवान् पर्वत इत्याकारकनिश्चयेऽप्रामाण्यज्ञानोत्पादप्रयोजकतया पर्वतधर्मिकप्रमितवह्निकोटिनिश्चयात्मकवहिप्रकारकबुद्धौ अप्रामाण्यज्ञानविरह विशिष्टस्यैव वह्नयभावव्याप्यजलप्रकारकनिश्चयस्य प्रतिबन्धकतया तदभावस्य तादृशवह्निकोटिनिश्चयजनकस्य सम्पादकतयैव निरुक्तदुष्टत्वज्ञानस्य प्रमितवह्निकोटिनिश्चयात्मकतत्वनिर्णयो. पयोगिताया अनिवृत्तेरिति ।।
ननु तत्त्वं ब्रह्मणि याथायें धर्मे साधारणेऽपि'चेत्यादिकोषात् तत्त्वपदस्य ब्रह्मणि याथार्थ्यादावेव शक्ततया तस्य प्रमितकोटिपरत्वे तत्पदस्य लाक्षणिकस्वापत्तिरत आहाथवेति । साध्यवत्ताज्ञाने = वह्वयादिरूपसाध्यप्रकारकज्ञाने, पर्वतादिधर्मिकवह्वयादिप्रकारकपर्वतो वह्निमानित्याद्याकारकानुमिताविति यावत् । प्रमात्वनिश्चयः = वह्वयादिमति वह्नयादिप्रकारकस्वरूपयाथार्थ्यनिश्चयः । तथाचोक्तकल्पे तत्त्वपदस्य याथार्थ्यार्थकतया न तस्य लाक्षणिकत्वापत्तिरिति भावः।
सद्धेतौ दुष्टहेतौ च निरुक्तप्रमावनिश्चयरूपतत्त्वनिर्णयोपयोगिता प्रदर्शयति तत्रेति । साध्यवत्ताज्ञानधर्मिकप्रमात्वनिश्चय इत्यर्थः । अनुमापकहेतोः = पर्वतादौ
* कलाविलासः
अथवेति । तथाचेयमनुमितिः प्रमा, साध्यव्याप्तिपक्षधर्मताविशिष्ट हेतुज्ञानजन्यत्वे सति प्रमात्वविरोध्यप्रमात्वग्रहजनकसाध्याभावादिसाधकहेत्वदुष्टत्वग्रहप्रतिचन्धकतादृशहेतुधर्मिकदुष्टत्वग्रहकालीनत्वादित्यनुमानेनैव प्रकृतपक्षधर्मिकसाध्यानुमितो प्रमात्वनिश्चयः । तत्र पूर्वोक्तयुक्त्या सद्धेतोरिव दुष्टस्यापि प्रमात्वप्रयोजकत्व. मवगन्तव्यम् ।
नच पर्वतो वह्निमान् घटवांश्चेत्याकारिकायां भ्रमात्मकसमूहालम्बनानुमितौ निरुक्त हेतोः सत्त्वेन तत्र प्रमात्वविरहात् व्यभिचार इति वाच्यम् , वह्वयादिमति वह्नयादिप्रकारत्वरूपानुगतप्रमात्वस्य साध्यत्वोपगमेन व्यभिचारस्य वारणसम्भवादिति तु विभावनीयम् ।
"Aho Shrutgyanam"