________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ।
* गादाधरी तत्त्वनिर्णयः प्रमितकोटिनिश्चयः। तत्र व्याप्तिपक्षधर्मताविशिष्टप्रकृत. हेतुज्ञानमिव तद्विपरीतकोटिसाधकस्य हेत्वाभासत्वज्ञानमप्युपयज्यते, प्रतिबन्धकीभूतविपरीतकोटिव्याप्यवत्ताज्ञानेऽप्रामाण्यग्राहकत्वादित्युभयोस्तत्त्वनिर्णयप्रयोजकत्वम् ।
* चन्द्रकला के वह्निकोटावेव वर्तमानतया पर्वतादौ वन्यादिकोटिनिश्चय एव तत्त्वनिर्णयशब्दार्थः, तादृशवहन्यादिनिश्चयश्च पर्वतादौ वन्याद्यनुमितिस्वरूप एवेत्याह प्रमितेति । पर्वतादिविशेष्यकवयादिप्रकारकप्रमाज्ञानीयप्रकारीभूतवह्निकोट्यनुमितिरित्यर्थः ।
तत्र= निरुक्तवाहिकोटिनिश्चयात्मिकायामनुमितौ । व्याप्तीति । व्याप्तिविशिष्टस्य प्रकृतहेतोः पक्षेण सह वैशिष्ट्यावगाहिज्ञानं परामर्शः स इवेत्यर्थः । तद्विपरीतेति । तस्य वह्निकोटेविपरीतो यो वन्यभावकोटिस्तत्साधकस्य हेतोरित्यर्थः । हेस्वाभासत्वज्ञानम् = दुष्टस्वज्ञानम् । उपयुज्यते = जनकं भवति । कथमिस्याकांक्षायामाह प्रतीति । वह्निकोटिप्रतिबन्धकीभूते वह्निविपरीतवहन्यभावकोटिव्याप्यजलवान् पर्वत इत्याकारकज्ञाने इत्यर्थः । अप्रामाण्यग्राहकस्वात् = अप्रामाण्यग्रहजनकरवात् । उभयोः-सद्धे तुदुष्टहेरवोः । तत्त्वनिर्णयप्रयोजकत्वमिति । अयंभावः, पर्वतविशेष्यकवह्निकोटिनिश्चयात्मकवन्यनुमितौ वहिव्याप्ति
* कलाविलासः कत्वेऽपि नसंगतिरिति वाच्यम , तत्र तत्पदस्य बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नशक्ततया तदा दुःखत्रयपरामर्शकत्वसम्भवात्, अत्रतु हेतुमात्रवोधार्थमेवासमासेन लिखनत्यावश्यकत्वात् , निरुक्तस्थले तत्पदेनैकदेशपरामर्शकत्वस्य प्रयत्नसाध्यत्वानभ्युपगमाच्चेति ध्येयम् ।
मूले तत्त्वनिर्णयेति । नच विजयपदोपादानं व्यर्थे, तत्त्वनिणयपदोपादानेनैवैककार्यकारित्वसंगतिलाभसम्भवादितिवाच्यम् ? "तत्त्वनिर्णयोद्देश्यकन्यायानुगतवचनसन्दर्भो वादः, विजयोद्देश्यकतादृशवचनसन्दभी जल्पः” इति विभेदभिन्न प्रयोजनप्रदर्शनार्थ द्वयोरुपादानसम्भवादिति ध्येयम् ।
टीकायां प्रमितकोटिनिश्चय इति। तथाच इयमनुमितिः विवादविषयीभूतयोः कोट्योर्मध्ये प्रमितवन्यादिकोटिविधेयताकत्ववती वह्नयादिव्यासिपक्षधर्मताविशिष्टहेतुशानजन्यत्वे सति वह्निविरोधिवयभावव्याप्यजलादिपरामर्शधर्मिकाप्रामाण्यग्रहजनकजलादिधर्मिकदुष्टत्वग्रहकालीनत्वादित्यनुमानेन । प्रमितवयादि.. विधेयकत्वनिश्चयस्तत्र निरुक्तहेतुज्ञाननिष्ठजनकतायां परम्परयाऽवच्छेदकतावतः न्याप्तिपक्षधर्मताविशिष्टसद्धेतोरिव तादृशावच्छेदकतावतो दुष्टस्य जलादेरपि प्रयोजकस्वादिति भावः।
"Aho Shrutgyanam"