________________
चन्द्रकला - कलाविलासाख्यटीकाद्वयसमलङ्कृतम् ।
ॐ गादाधरी
तथापि तन्मात्रपरत्वे सङ्गत्यप्रदर्शनेन न्यूनता स्यादिति तस्यैककार्यकारित्वरूपसङ्गतिप्रदर्शनपरत्वमपि सम्भवतीति स्फुटीकर्तुमाह तत्त्वनिर्णयादीति । आदिपदाद् विजयपरिग्रहः । तत्कार्यकारित्वात् सपरिकर हेतु - प्रयोज्य कार्य प्रयोजकत्वात्, प्रयोजकत्वं च जनकतावच्छेदकादिसाधारणमिति स्वविषयक ज्ञानकार्यं प्रति स्वस्य तथात्वमक्षतमेव ।
* चन्द्रकला
शिष्येति । शिष्यस्य या हेत्वाभासप्रवृत्तिस्तत्प्रयोजकीभूतं यत् ज्ञानानुकूलव्यापारात्मकनिरूपणघटकं हेत्वाभासज्ञानं तत्प्रयोजनप्रदर्शनेच्छ्योच्चरितमित्यर्थः । तन्मात्रपरत्वे = निरूपणघटक ज्ञान प्रयोजनप्रदर्शनमात्रपरत्वे । संगत्येति । स्वाभासनिरूपणप्रयोजकेत्यादिः । न्यूनता = संगत्यकथनेन संगतिविषयकज्ञानाभाववत्पुरुषोच्चरितता । तस्य = तत्त्वनिर्णय विजयप्रयोजकत्वादितिमूलस्य । एककार्यति । सङ्केतुभिन्नत्वे सति सद्धेतुप्रयोज्य कार्यप्रयोजकत्वरूपैककार्यकारिवादिरूपा या संगतिस्तत्प्रदर्शनेच्छयोच्चरितत्वमपीत्यर्थः ।
सपरिकरेति = सपरिकरहेतुभिन्नध्ये सतीत्यादिः । तेन न संगतेः सपरिकर हेतुनिष्टत्वमपि शंकनीयमितिध्येयम् । ननु तत्वनिर्णयविजयप्रयोजकत्वं यदि तत्वनिर्णयादिजनकत्वं तदा हेत्वाभासे सद्धेतौ च तादृशजनकत्वं नास्त्येव हेत्वाभासादिज्ञानस्यैव सत्त्वनिर्णयादिजनकत्वात् अत आह प्रयोजकत्ववेति । प्रयोजकत्वं न जनकत्वं, अपितु जनकजनकतावच्छेदकसाधारणमेव वाच्यमित्याह जनकतावच्छेदकादीति । जदिना जनकपरिग्रहः । तेन हेत्वाभासज्ञानस्य जनकत्व - स्फुटीकरणात् हेत्वाभासस्य जनकतावच्छेदकत्वमप्यक्षतमिति सूचितम् ।
अतः = प्रयोजकत्वस्य जनकतावच्छेदकादिसाधारणत्वतः । स्वविषयेति । स्वम् = हेत्वाभासादिः तद्विषयकज्ञानस्य तत्त्वनिर्णयादिरूपकार्य प्रतीत्यर्थः । स्वस्य = हेत्वाभासादेः । तवं = जनकतावच्छेदकत्वम् । वादिप्रतिवादिनोः पर्वतो वह्निमान् वहन्यभाववान् चेत्याकारिका वाक्यद्वयात्मिका विप्रतिपत्तिः, तज्जन्यपर्वतो वह्निमान वेत्याकारक संशयप्रकारत्वरूपकोटित्वस्यं वह्नौ वहन्यभावे च सवेsपि वह्निमपर्वतविशेष्यकवह्निप्रकारकप्रमाज्ञानविषयत्वरूपप्रमितत्वस्य
* कलाविलासः
नुपपत्तेः, सपरिकर हेतोः परामर्शसम्भवेऽपि तत्राभासत्वाऽयोगेनानन्वयापत्तेरशक्यसमाधित्वात्,
नचैवं "दुःखत्रयाभिघातात् जिज्ञासा तदपघातके हेतावित्यत्र तत्पदेन समस्तैकदेशी भूत दुःखत्रयस्यैव परामर्शस्य दृष्टतया निरुक्ततत्पदस्यैकदेशपरामर्श
"Aho Shrutgyanam"