________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ।
गादाधरी के तत्त्वनिर्णयविजयप्रयोजकत्वादिति मलं यद्यपि हेत्वाभासनिष्ठतत्त्वनिर्णयादिजनकज्ञानविषयत्वार्थकतया शिष्यप्रवृत्त्य पयोगिनिरूपणघटकज्ञानप्रयोजनप्रदर्शनपरम्,
* चन्द्रकला हेत्वाभासविषयकज्ञानानुकूल व्यापारात्मकं हि हेत्वाभासनिरूपणं सफल मेव, निरुक्तनिरूपणाधीन हेत्वाभासज्ञानं विना तत्वनिर्णयविजयोत्पादानुपपत्तेः सुतरां यथोक्तनिरूपणघटकहेत्वाभासज्ञानप्रयोज्यायाः शिष्यप्रवृत्तेरपि सफलत्वमवश्यं वक्तव्यम्, तथाच हेत्वाभासा मया निरूप्यन्ते, तत्त्वनिर्णयविजयजनक ज्ञानविषयस्वादित्यादिरीत्या तत्त्वनिर्णयविजयप्रयोजकत्वादितिमूलस्य सार्थक्योपपादने हेत्वाभासनिरूपणप्रयोजकसंगत्यप्रदर्शनेन मूलस्य न्यूनतापरिहारः न स्यादतस्तादृशः मूलस्य संगतिप्रदर्शनपरत्वमेव दीधितिकृता व्याख्यातमित्याह तत्त्वनिर्णयेति । इति मूलम् =इति मुलग्रन्थः। हेत्वाभासेति । हेत्वाभास ज्ञानस्य तत्वनिर्णयादिजनकतया हेत्वाभासनिष्टं तादृशजनकज्ञानविषयत्वं निर्विवादमिति भावः ।
कलाविकासः एव सद्धेतुत्वेनाभिमततया उत्पत्तिकालीनघटो गन्धवान् पृथिवीत्वात् इत्यादिहेतौ व्याप्तेः पक्षधर्मतायाश्च सत्त्वेन तस्याऽनिरूपणप्रसंगः स्यात्, विरोधिव्याप्तिपक्षधर्मत्वाभावविरहिणो निरुक्तपृथिवीत्वहेतोः स्मरणोदयासम्भवात् ।
अतएव जगदीशतकोलंकारैः परिकरः सहकारी, सच व्याप्तिपक्षधर्मत्वादिरित्यत्रादिपदं प्रक्षिप्याबाधितत्वासत्प्रतिपक्षितत्वयोः परिग्रह प्रदर्शयद्भिस्तादृशपृथिवीत्वहेतोरपि बाधितत्वेन दुष्टत्वं निरूपितमिति चेन्न, भट्टाचार्यमते निरू. प्यतावच्छेदकधर्मसामानाधिकरण्येन संगतिमत्त्वस्यैव निरूपणप्रयोजकतया निरुक्त. पृथिवीत्वहेतौ संगत्यसत्त्वेऽपि क्षत्यभावात्, निरूप्यतावच्छेदकहद पक्षकवह्निसाध्यकदुष्टान्तरधूमत्ववति संगतिसत्त्वस्यावश्यकतया तत एवान्येषामपि दुष्टानां निरूपणसम्भवात् । __ जगदीशमते तु निरूप्यतावच्छेदकावच्छे देन संगतित्वस्य निरूपणप्रयोजकतया सर्वत्र दुष्टहेतौ संगतिमत्त्वस्यावश्यकत्वेन व्याप्तिपक्षधर्मत्वादिरित्यत्रादिपदोपादानं, तेनासंकीर्णबाधिततादृशपृथिवीत्वहेतावपि संगतिलाभसंभव इति तु परमार्थः ।।
दीधितौ सपरिकरं हेतुमिति । नचानासमासेन लिखनमसंगतं, सपरिकर... हेतुमित्याकारकसमस्त निर्देशस्यैव युक्तत्वादिति वाच्यम् , तदादीनामेकदेशपरामर्शकत्वस्याव्युत्पन्नतया तदाभासनिरूपणमित्यत्र तत्पदेन हेतुमात्रपरामर्शसम्भवा.
"Aho Shrutgyanam"