________________
चन्द्रकला-कलाविलासाख्यटीकाद्वय समलङ्कृतम् ।
* गादाघरी
परिकरो व्याप्तिपक्षधर्मते । निरूप्येत्यन्तमुक्तक्रमेण दुष्टहेतोः स्मृतत्वस्य प्रसङ्गनिर्वाहकस्य लाभाय । तत्प्रसङ्गादिति । सपरिकर हेतु निरूपितप्रसङ्गसङ्गतेरित्यर्थः । तज्ज्ञानजन्यजिज्ञासाधीनत्वं पञ्चम्यर्थः । अन्वयश्वास्य निरूपणमित्यनेन । * चन्द्रकला
सपरिकरशब्द घटकपरिकरपदार्थं व्याचष्टे व्याप्तीति । तथाच व्याप्तिपक्षधर्मताभ्यां सह वर्त्तमानः सपरिकर इतिवत्युपत्त्या सपरिकरशब्दस्य व्याप्तिपचधर्मतोभयविशिष्टहेतुरेवार्थ इतिभावः । हेत्वाभासनिरूपणात् पूर्वं यदि व्याप्तिपक्षधर्मताविशिष्टस्य हेतोर्निरूपणं स्यात् तदा तादृशव्याप्तिपक्षधर्मत्वाभाववत एव दुष्टहेतुत्वमिति तात्पर्यादायातमित्याशयेन दीधितिकृदुक्तं निरूप्यान्तं सार्थकयति निरूप्य इति । स्मृतस्व'स्य = स्मृतिविषयत्वस्य । लाभायेति । तथाच स्मृतिविषयतावच्छेदकद्वेषविषयतानवच्छेदक हेत्वाभासपदार्थत्वरूपप्रसंगसंगतिलाभो निर्विवाद इति भावः ।
यन्निरूपणानन्तरं यो निरूपितो भवति तन्निरूपित संगतिमान् स भवतीतिव्याप्तिबलात् सद्धेतुनिरूपणानन्तरं निरूपणीये हेत्वाभासेऽपि सद्धेतुनिरूपितसंगतिमत्त्वस्यावश्यकतया तत्प्रसंगादिति दीधितिव्याख्यानमाह सपरिकरेति । -सद्धेतुनिरूपितहेत्वाभासपदार्थत्वरूपप्रसंगसंगतेरित्यर्थः । तथाच सद्धेतुनिरूपित संगतिमत्त्वं हेत्वाभासस्य दीधितिकृतैव प्रदर्शितमिति भावः । तादृशनिरूपणान्वयिनः प्रयोज्यत्वमात्रस्य पञ्चम्यर्थत्वे प्रसंगस्य संगतिस्वं न सम्भवति, अनन्तराभिधानप्रयोजक जिज्ञासाजनकज्ञानविषयस्यैव - संगतित्वादत आह तज्ज्ञानेति । तादृशसंगतिज्ञानजन्या या 'हेत्वाभासपदार्थाः के' इत्याकारिका जिज्ञासा तदधीनत्वमित्यर्थः । निरूपणमित्येति । तदाभासेत्यादिः ।
ॐ कलाविलासः
इति चेदत्र केचित् । शिष्याणामने कत्वात् कस्यचित् " हेत्वाभासपदार्थाः के" इत्याकारिका जिज्ञासा, कस्यचिच्च "सद्धेतुप्रयोज्य कार्यप्रयोजकं किमित्याकारिका" जिज्ञासा सम्भवतीति तत्तजिज्ञासामादायैव तत्र तत्र संगतिसामान्यलक्षणसमन्वयः निराबाध इति वदन्ति ।
वस्तुतस्तु अनन्तराभिधानप्रयोजक जिज्ञासाजनकस्मरणप्रयोजक निरूप्यनिष्ठ सम्ब-न्धस्यैव संगतित्वेन " हेत्वाभासाः के" इत्याकारकैकविधजिज्ञासामादायैवोभयत्र संगतिलक्षणसमन्वयो भवत्येव । स्वविरोधिव्याप्तिपक्षधर्मत्वाभाववत्त्वसम्बन्धज्ञानात् सद्धेतुप्रयोज्यकार्यप्रयोजकत्वरूपसम्बन्धज्ञानाच्च दुष्टहेतोः स्मरणोदयसम्भवेन तादृशस्मरण प्रयोजकतत्तत्सम्बन्धस्य दुष्टहेतुनिष्ठतया तस्य संगतित्वस्यावश्यकत्वात्, एतन्मते उपोद्घातादिपञ्चकभिन्नसंगतेरेव प्रसंगत्वं बोध्यमिति ध्येयम् ।
परिकरो व्याप्तिपक्षधर्मते इति । अथात्र द्विवचनेन व्याप्तिपक्षधर्मतोभयवतः
"Aho Shrutgyanam"