________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ।
* गादाधरी
व्याप्तिपक्षधर्मताविरोधितद्विरहवतो दुष्टहेतोः स्मरणाद्, अतस्तदप्रदर्शकमूलस्य न्यूनतां परिजिहीर्षुः प्रसङ्गस्यापि तन्निरूपण प्रयोजकत्वमाह एतावतेति ।
ॐ चन्द्रकला
ननु स्मृतिविषयतावच्छेदकत्वे सति द्वेषविषयतानवच्छेदको धर्मः प्रसंगः, सच प्रकृते हेत्वाभासपदार्थस्वस्वरूपस्तत्र द्वेषविषयतानवच्छेदकत्वसत्त्वेऽपि स्मृतिविषयतावच्छेदकत्वं कथं समर्थनीयमित्याशंकायामाह व्याप्तीति । व्याप्तिपक्षधर्मतोभयविशिष्टो यो हेतुः (सद्धेतुः ), तद्विषयकज्ञानानुकूलव्यापारे सतीत्यर्थः । सति सप्तम्याः पञ्चम्यन्तस्मरणपदार्थान्त्रय्युत्तरकालीनत्वमर्थः । व्याप्तीति । व्याप्तिपक्षधर्मत्वज्ञानप्रतिबन्धकतावच्छेदकप्रकारताश्रयीभूतो यस्तद्विरहो व्याप्तिपक्षधर्मस्वाभावस्तद्वत इत्यर्थः । सद्धेतावपि व्याप्तिपक्ष धर्मव्वघटत्वोभयाभावस्य कालान्तरावच्छेदेन व्याप्तिपक्षधर्मत्वसामान्याभावस्य च सत्त्वेन व्याप्तिपक्षधर्मत्वाभाववखावच्छेदेन दुष्टहेतुत्वासम्भवात् प्रतिबन्धकतावच्छेद की भूतप्रकारताश्रयार्थ कं विरोधिपदम् । नच विरोधिपदस्य निरुक्तार्थकत्वे तद्विरहवत इत्यभिधानमयुक्तं, विरोधिपदेनैव व्याप्तिपक्षधर्मत्वाभावस्य लाभसम्भवादिति वाच्यम्, व्याप्तिपक्षधर्मत्वभावत्वेन घटाभावज्ञानीयघटाभावनिष्ठप्रकारताया अपि तादृशप्रतिबन्धकतावच्छेदकतया तदाश्रयघटाभाववति सद्धेतौ दुष्टहेतुत्वाऽसम्भवात् सम्बन्धित्वावच्छिन्नस्यैव सम्बन्धिनः स्मरणस्य सम्बन्धज्ञानाधीनत्वादिति तु विभावनीयम् ।
,
दुष्टहेतोरिति । सम्बन्धिनः इत्यादिः । स्मरणादिति । स्मरणोदयसम्भवादित्यर्थः । तथाच स्ववृत्तिव्याप्तिपक्षधर्मत्वविरोधिव्याप्तिपक्षधर्मत्वाभाववत्त्वसम्बन्धज्ञानात् तत्सम्बन्धिनो दुष्टहेतोः स्मरणोत्पादस्यावश्यकतया स्मृतिविषयतावच्छेदकत्वं हेत्वाभासपदार्थस्वरूपप्रसंगसंगतावव्याहत मितिभावः ।
अत इति = दुष्टहेतौ प्रसंगसंगतिसत्त्वादित्यर्थः । तदप्रदर्शनेन = प्रसंगत्यप्रदर्शनेन । मूलस्य = मूलग्रन्थस्य । न्यूनतामिति । प्रसंगसंगत्यकथनेन अनुमितं यत् प्रसंग संगति विषय कमज्ञानं तद्वत्पुरुषोच्चरितत्वमित्यर्थः । परिजिहीर्षुः = परिहातुमिच्छुः, निराकर्तुमिच्छुरितियावत् । तन्निरूपणेति हेत्वाभासनिरूपणार्थकम् । आहेति । दीधितिकार इतिशेषः ।
* कलाविलासः *
यदि चसद्धेतुप्रयोज्यकार्य प्रयोजकं किमित्याकारिका शिष्यजिज्ञासा तदैककार्यकारित्वे संगतिसामान्यलक्षणसमन्वयसम्भवेऽपि पूर्वोक्तप्रसंगसंगतौ तादृशलक्षणसमन्वयो न सम्भवति, हेत्वाभासपदार्थत्वे सद्धेतुप्रयोज्य कार्यप्रयोजकत्वजिज्ञासाजनकज्ञानविषयताया विरहात् ।
" Aho Shrutgyanam"