________________
चन्द्रकला कलाविलासाख्यटीकाद्वयसमलङ्कृतम् ।
गादाधरी हेत्वाभासनिरूपणे प्रसङ्गस्याऽपि सङ्गतित्वं सम्भवति, व्याप्तिपक्ष. धमताविशिष्टहेतुनिरूपणे सति--
* वन्द्रकला हेत्वाभासेति । दुष्टहेतुविषयकज्ञानानुकूलव्यापार इत्यर्थः । प्रयोजकत्वं सप्तम्यर्थः, अन्वयश्चास्य संगतित्वमित्यत्र संगतिपदार्थे । अतएव यथा घटस्य घटत्वं सम्भवतीति न भवति तथा प्रसंगस्यापि संगतित्वं सम्भवतीति न स्यादित्याक्षेपोऽपि निरस्तः, हेत्वाभासनिरूपणप्रयोजकलंगतित्वस प्रसंगनिष्टतयाभिहितत्वादिति ध्येयम् ।
प्रसंगस्यापीति । हेत्वाभासनिष्ठस्येत्यादिः। एतेन तन्निष्ठायाः संगतेस्तन्निरूपणप्रयोजकत्वमितिनियमात हेत्वाभासनिष्टाया अपि प्रसंगसंगतेहत्वाभासनिरूपणप्रयोजकत्वं निराबाधमिति सूनितम् । अपिना प्रसंगभिन्नस्याप्येककार्यकारित्वस्य हेत्वाभासतिरूपणप्रयोजकसंगतित्वमस्त्येवेति प्रकाशीकृतम् । सम्भवति = तिष्ठति, वर्तत इति यावत् । अत्रैव धात्वर्थवृत्तितायां प्रसंगपदोत्तरपट्यर्थनिरूपितस्वस्यान्वयो बोध्यः । ___ मच कारकविभक्त्यर्थस्यैव धात्वर्थेऽन्वयस्य सर्वसम्मततया तद्भिन्नस्य षध्यर्थस्य कथं धात्वर्थान्वयः सम्भवतीति वाच्यम् , “गुरुविप्रतपस्विदुगतानां प्रतिकुर्वीत भिषक स्वभेषजै"रित्यादौ कारकविभक्त्यर्थभिन्नस्यापि षष्ठ्यर्थस्य धास्वर्थीभूतप्रतिक्रियायामन्वयस्य दृष्टतया अत्रापि षध्यर्थस्य धात्वऽन्ययसम्भवात् , षष्ठ्यर्थसप्तम्यर्थयोनिरुक्तस्थले भेदाभावेन पध्यर्थस्यापि सप्तम्यर्थतया तस्य कारकविभक्त्यर्थत्वस्याभ्युपगमेपि क्षत्यभावाच्चेति ध्येयम् ।
के कलाविलासः * देवः श्रीवनखण्डी सः, सर्वलोकप्रपूजितः । सर्वानर्थतिवृत्त्यर्थ, तपोमूत्तिः प्रणम्यते ॥ १ ॥ उक्तग्रन्यस्य संगृह्य क्रोडपत्रं प्रयत्नतः ।
कलाविलास तामन्येषा मया टीका विधीयते ॥ २ ॥ प्रसंगस्यापीति । ननु प्रसंगः स्मृतिविषयतावच्छेदकद्वेषविषयतानवच्छेदकधर्मः, सच प्रकृते हेत्वाभासपदार्थत्वस्वरूपः, तथा च यदि "हेत्वाभासपदार्थाः के" इत्याकारिका शिष्यजिज्ञासा, तदा अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयीभूतायां हेत्वाभासपदार्थत्वरूपप्रसंगसंगतौ संगतिसामान्यलक्षणसमन्वयसम्भवेऽपि सद्धेतुप्रयोज्यकार्यप्रयोजकत्वरूपैककायकारित्वसंगतौ तादृशलक्षणाऽसत्त्वं वारयितुमशक्यं स्यात् , तादृशजिज्ञासाजनकज्ञानविषयतायास्तत्राऽसत्त्वात् ।
"Aho Shrutgyanam"