________________
२५६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
® गादाधरी इदमुपलक्षणम् । यत्र परामर्शविरोधिनो व्यभिचार-विरोधासिद्धयस्त्रयो दोषा न तु बाध-प्रतिरोधौ पर्वतो वह्निमान् हृदत्वादित्यादौ परामशविरोधित्वमेव सामान्यलक्षणम् , यत्र च बाध-प्रतिरोधासिद्धयो दोषाः न तु व्यभिचारविरोधौ हृदो वह्निमान् धूमात् काञ्चनमयह्रदो वह्निमान् धूमात् हृदः काञ्चनमयवह्निमान् धूमात् ह्रदो वह्निमान् काश्चनमयधूमादित्यादौ च तत्र विशिष्टपक्षे विशिष्टसाध्य-विशिष्टसाधनयोवैशिष्ट्यावगाहि यज् ज्ञानं तद्विरोधित्वमेव तथा ।
* चन्द्रकला. तत्र पर्वतान्यत्वाभावविशिष्टिपर्वत • ताशाभावव्याप्यविशिष्टपर्वतादिभिन्नभिन्नत्वस्यैव लक्षणार्थताया अावश्यकत्वात् पर्वतान्यत्वविशिष्टपर्वतज्ञानस्याहार्यतया तद्विरोधित्वेन समुदायाश्रयासिद्धरुपादानाऽसम्भवादतो दोषविषयकज्ञानस्य यत्र प्रतिवध्यज्ञानं प्रसिद्धं तत्रैव विशिष्टपक्षग्रह धिरोधित्वरूपं तत्त्वं लक्षणमितिव्याख्यातमिति भावः । __ लाघवादाह इदमुपलक्षणमिति । यत्र = यादृशस्थले । नतु बाधप्रतिरोधौ = न तु बाधसत्प्रतिपक्षौ । पर्वत इति । अत्र वह्नयभावववृत्ति हृदत्वं व्यभिचारः। वलयधिकरणवृत्तित्वाभावविशिष्टं वहिव्यापकीभूताभावप्रतियोगित्वविशिष्टं वा ह्रदत्वं विरोधः । हृदत्वाभाववत्पवतः स्वरूपासिद्धिरितिबोध्यम् ।
परामर्शविरोधित्वमेवेति । साध्यनिरूपिततत्तव्याप्त्यवच्छिन्नप्रकृतहेतुप्रकारकप्रकृतपक्षविशेष्यकलौकिकसन्निकर्षाद्यजन्यग्रहत्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकत्वं यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं तद्रूपवत्त्वमेव हेत्वाभासत्वमित्यर्थः।
बाधप्रतिरोधेति । बाधसत्प्रतिपक्षेत्यर्थकम् । हृदो वह्निमान् धूमादित्यत्र वह्नयभावविशिष्टह्रदो बाधः, वह्नयभावव्याप्यविशिष्टहृदः सत्प्रतिपक्षः धूमाभावविशिष्टहदश्च स्वरूपाऽसिद्धिः । काञ्चनमयहृदो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाद्यभावविशिष्टह दादिकमाश्रयासिद्धिः । हृदः काञ्चनमयवह्निमान् धूमादित्यादौ काञ्चनमयत्वाद्यभावविशिष्टवह्नयादिकम् साध्याऽप्रसिद्धिः । ह्रदो वह्निमान् काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभाववभूमादिकं साधनाऽप्रसिद्धिरित्यवगन्तव्यम् ।
विशिष्टपक्ष इति । पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारताकत्वे सति हेतुतावच्छेदकावच्छिन्नप्रकारताकग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वमेव तथा = सामान्यलक्षण ।
"Aho Shrutgyanam"