________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
दीधितिः स चातिरिक्त एवान्योन्याभाव इति न वैयर्थ्यम्
___ गादाधरी एवं यत्र व्यभिचारासिद्धी एव दोषौ काश्चनमयः पर्वतो धूमवान् वढेरित्यादौ तत्र विशिष्टपक्षविषयक-व्याप्तिविशिष्टसाधनग्रहविरोधित्वादिकं तथेत्यपि बोध्यम् । ननु तत्तद्धर्मावच्छिन्नभिन्नभिन्नत्वरूपलक्षणघटकतत्तद्ध
आणां भागासिद्धतया हेत्वाभाससामान्येतरभेदाननुमापकत्वेऽपि व्यभिचारावारकतया तदितरांशवैयमित्यत आह सचेति । स चान्योन्यामावोऽतिरिक्त एवेति योजना । स च = तत्तद्धर्मावच्छिन्नप्रतियोगिताकमेदकूटावच्छिन्न प्रतियोगिताकः भेदः, अतिरिक्तः तत्तद्धर्मातिरिक्तः, तथा च
चन्द्रकला काञ्चनमयपर्वतो धूमवान् वर्तरित्यादौ काञ्चनमयत्वाभावादिमत्पर्वतादिराश्रयाऽसिद्धिः, धूमाभावववृत्तित्वविशिष्टवह्रथादिय॑भिचार इत्यपि बोध्यम् तत्र = तादृस्थले । विशिष्टपक्ष इति । पक्षतावच्छेदविशिष्टपक्षविषयकः प्रकृतसाध्यव्यातिविशिष्टहेतुविषयकश्च यः पक्षतावच्छेदकविशिष्टपक्षः प्रकृतसाध्ययाप्यो हेतुरित्याकारकग्रहस्तादृशग्रहत्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वादिकमित्यर्थः । आदिपदात् दोषद्वयस्थलेऽपि अनयव रीत्या लक्षणं वक्तव्यमिति सूचितम् । तथा सामान्यलक्षणम् ।
सचातिरिक्त एवेत्यादिदोधितिमवतारयति नन्वित्यादि । अयमभिप्रायः, दोषाः स्वेतरभिन्नाः बाधत्वादिमत्त्वात् स्वरूपासिद्धिमत्त्वाद्वत्यादिहेतोः दोषात्मकपक्षकदेशे बाधातिरिक्तसत्त्वेन भागासिद्धिसम्भवेऽपि यत्र यत्र बाधत्वादिकं तत्र तत्रैव दोषेतरभेदसत्त्वेन व्यभिचाराऽप्रसक्तया ताशबाधत्वादिरूपतत्तधर्मावच्छिन्नमिन्नभिन्नत्वरूपनिरुक्ततरभेदानुमापकलक्षणात्मकहेतोयर्थं स्यात् , निरुक्तभिन्नभिन्नत्वस्य तत्तद्धर्मरूपतया तादृशभिन्नभिन्नत्वत्वरूपस्वसमानाधिकरणप्रकृतसाध्यीभूतेतरभेदव्याप्यतावच्छेदकतत्तद्धर्मत्वादिघटितस्ववत्त्वस्य । ताहशभिन्नभिन्नत्वरूपहेतौ सत्त्वात् तस्येतरभेदानुमापकत्वाऽसम्भवात् व्यभिचाराऽवारकस्यैव व्यर्थत्वादिति । तत्तद्धर्मातिरिक्तः = तत्तद्वाधत्वाद्यतिरिक्तः । उपसंहरति तथाचेति । तत्तद्धर्मावच्छिन्नभेदकूटावच्छिन्नप्रतियोगिताकभेदस्य तत्तद्धर्मातिरिक्तत्वे चेत्यर्थः।
कलाविलासः - तथाच धर्मिभेदान वैयमिति । अत्र तादृशान्यतमस्य तादात्म्यसम्बन्धे.
"Aho Shrutgyanam"