________________
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
* दीधितः
एकमात्रदोषस्थले च तत्त्वमेव हेत्वाभासत्वम् ।
गादाधरी
२५५
च
यत्राश्रयासिद्धयादि रेकविध एव दोषः प्रतिबध्यज्ञानञ्च प्रसिद्धं महानसत्ववान् पर्वतो वह्निमान्धूमादित्यादौ तत्र विशिष्टपक्षग्रह विरोधित्वादिरूपाश्रयासिद्धित्वादेरेव दोषसामान्यलक्षणत्वमुचितं न तु महानसत्वाभावविशिष्ट पर्वतत्वाद्यवच्छिन्नतादृशाभावव्याप्यविशिष्टपर्वतत्वाद्यवच्छिन्नभिन्नभिन्नत्वस्य निरुक्तसमूहालम्बनानुमितिविरोधित्वस्य गौरवादित्याशयेनाह एकमात्रदोषस्थल इति । एकविध एव यत्र दोषस्तद्विषयक ज्ञानप्रतिबध्यज्ञानञ्च प्रसिद्ध, तादृशस्थल इत्यर्थः । तेन ग्राह्याभाव- तद्व्याप्यभेदेन विशेषण- विशेष्यभावभेदेन च सर्वत्र दोषाणां नानात्वसम्भवादेकमात्रदोषस्थलस्याप्रसिद्धत्वेऽपि पर्वतान्यः पर्वतो वह्निमान् धूमादित्यादावेकविध मात्रदोषस्थले ग्राह्याभाव-तद्व्याप्यरूपघटकादिभेदेन विभिन्नाश्रयासिद्ध्यादीनामनुगमकरूपाभावेनान्यतमत्वस्य लक्षणताया आवश्यकत्वेऽपि न क्षतिः । तत्त्वम् = तादृशत्वं निरुक्ताश्रयासिद्धित्वादिकमिति यावत् ।
* चन्द्रकला *
तत्तदनन्तदोषभिन्नभिन्नत्वस्य
पक्षः साध्यवान्
साध्यव्याप्यहेतुमांश्चेत्या
कारकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वस्य लक्षणार्थत्वे गौरवं स्यादतस्तादृशस्थले पक्षतावच्छेदकविशिष्ट पक्षग्रहत्वावच्छिन्नप्रतिबध्यता निरूपित प्रतिबन्धकतावच्छेदकस्व । वच्छिन्न विषयिताकधर्मवत्त्वमेव लक्षणार्थं इत्याशयवतां दीधितिकृतामेकमात्रेत्यादिग्रन्थं व्याचष्टे एकविध एवेति । दोषतावच्छेदकमात्रधर्मविशिष्ट एवेत्यर्थः ।
"Aho Shrutgyanam"
च
यत्र = यादृशस्थले । तद्विषयकेति । एकविधदोषविषयकनिश्चयस्य प्रतिबध्यज्ञानमित्यर्थः । तेनेति । यत्र एकविध एव दोष इत्याद्यर्थंकरणेनेत्यर्थः । तथाच महानसत्ववान् पर्वतो वह्निमान् धूमादित्यादावपि महानसत्त्वाभावव्याप्यविशिष्टपर्वत - पर्वतवृत्तिमहान सत्वाभावादिभेदेन दोषाणामानन्त्यादेकमात्रदोषस्थले इत्यभिधानं दीधितिकारस्यासंगतं स्यादतः एकमात्र दोषतावच्छेदकधर्मावच्छिन्न दोषस्थले इत्यर्थंकरणेऽपि न निस्तारः, पर्वतान्यः पर्वतो वह्निमान् धूमादित्यादौ पर्वतान्यत्वाभाव-तद्व्याप्यादिविशिष्टपर्वतादेः आश्रयासिद्धित्वरूपैकमात्रधर्मावच्छिन्नस्यैव दोषतया