________________
२५४ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
छ गादाधरी रूपितविषयितान्यतमविषयितानिरूपकतावच्छेदकतापर्याप्त्यधिकरणधर्मव. त्वमेवाभिमतम् ।
श्रयञ्च प्रकारो यादृशपक्षसाध्यहेतुकस्थले उक्तसमूहालम्बनानुमितेरप्रसिद्धिस्तत्रैवादरणीयः। यत्रतु तत्प्रसिद्धिस्तत्र लाघवाद्यथाश्रतमूललक्षणमेव साधीयः । शब्दाभेदस्याकिश्चित्करतायाः स्वयमेव वक्ष्यमाणत्वादित्यवधेयम् ।
चन्द्रकला तत्तद्दोषभिन्नभिन्नत्वं किन्तु दोषादिनिरूपितविषयितायामेव तत्तद्विशिष्ट निरूपितविषयिताभिन्न भिन्नत्वं वक्तव्यम् ।
तथासति तादृशविशिष्टदोषादिनिरूपिततावद्विषयिताभिन्नभिन्नविषयितानिरूपकतावच्छेदकधर्मवत्वमित्यस्यैव लक्षणार्थतया न बाधैकदेशे केवलहदादावतिव्याप्तिः, वह्नयभावविशिष्टहृदादिनिरूपितविषयिताभिन्नभिन्न विषयितानिरूपकतावच्छेदकत्वस्य वह्नयभावविशिष्टहृदत्वादावेव वर्तमानत्वात् केवलहृदत्वाद्यवच्छिन्नविषयिताया वह्नयभावविशिष्टहदत्वाद्यवच्छिन्नविषयितातो भिन्नत्वात् ।।
न वा आकाशाभाववत्सर्वरूपबाधेऽव्याप्तिः, आकाशाभाववत्सर्वत्वावच्छिन्ननिरूपितविषयिताभिन्नत्वस्य घटत्वावच्छिन्नविषयितायां सत्त्वेन तभिन्नत्वस्य च ताशसर्वत्वावच्छिन्नविषयितायामनपायादिति तात्पर्यम् । ___ अयञ्च प्रकारः = निरुक्ततावदन्यान्यत्वादिरूपलक्षणात्मकप्रकारः । उक्तसमूहेति । पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेत्याकारिकाया अनुमितेरित्यर्थः। तत्र= निर्वह्निः पर्वतो वह्निमान् निर्वहिर्वह्निमानित्यादिस्थले। आदरणीय इति । उपायान्तराभावादित्यादिः ।
यत्र तु = हृदो वह्निमानित्यादिस्थले तु । तत्प्रसिद्धिः = निरुक्तसमूहालम्बनानुमितिप्रसिद्धिः । लाघवादिति । तावदन्यान्यत्वस्य भेदद्वयगर्भत्वेन तदपेक्षया हृदो वद्विमानित्यादौ यद्रूपावच्छिन्नविषयकत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वार्थकमेव पूर्वोक्तं मूललक्षणमादरणीयमित्यर्थः।
नन्वेनं लक्षणस्य नानात्वं दुर्वारभित्यत आह शब्दाभेदेति । लक्ष्यभेदेन लक्षणनानात्वस्य दीधितिकृतैवान वक्ष्यमाणतया लक्षणस्य लक्ष्यभेदेन नानात्वमिष्टमेव सुतरां लक्षणात्मकशब्दाभेदोऽकिञ्चित्कर इति भावः।
महानसत्ववान् पर्वतो वह्निम न् धूमादित्यादौ महानसत्वाभावविशिष्टपर्वतादेरिव पर्वतवृत्तिमहानसत्वाभावादेर्महानसत्वाभावव्याप्यविशिष्टपर्वतादेरपि आश्रयासिद्धित्वेन
"Aho Shrutgyanam"