________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २५३
गादाधरी धया निवेशो, न तु वह्निविशिष्टपर्वतत्व-निधूमत्त्वविशिष्टनिर्वह्नित्वादिना, प्रयोजनविरहात् , यत्स्थलीययाहशदोषविषयकज्ञानस्य प्रतिवध्यज्ञानमप्रसिद्धम् , यथा निर्वह्निर्वह्निमानित्यदिस्थलीयस्य च बाधादेनिस्य, तस्थलीयतादृशदोषाणामगत्या वह्नयभावविशिष्टनिर्वद्वित्ववह्नयभावव्याप्यविशिष्टनिवह्नित्व - निर्वह्निनिष्ठवह्नयभावत्व-- निर्वह्निनिठवह्नथभावव्याप्यत्वादिना चाननुगतरूपणव निवेशः। अत्र च विशिष्टभिनभिन्नत्वस्य शुद्धविशिष्टसाधारणतया सर्वमाकाशवदित्यादावाकाशाभावविशिष्टसर्वादिरूपबाधादिभिन्नत्वस्याप्रसिद्धतया च तत्तद्विशिष्टनि
ॐ चन्द्रकला निवेश इति । तथाच निर्वह्निः पर्वतो वह्निमान् धूमादित्यादौ निर्वह्निः पर्वतो धूमवानित्याकारकग्रहविरोधिताहशाऽसिद्धित्वावच्छिन्नभिन्नभिन्नत्वमेव लक्षणमित्याशयः।
तादृशस्थले अननुगतग्राह्याभाव-तद्वयाप्यादिभिन्न भिन्नत्वनिवेशस्तु प्रयोजनाभावाद् गौरवाच न कत्तव्य इत्याह नस्विति ।।
नन्वेवं तत्तद्दोषभिन्न भिन्नत्वं कुत्र वक्तव्यमित्याकांक्षायामाह यादृशेति । यद्पावच्छिन्नपक्षसाध्यकहेतावित्यर्थः । दोषविषयकेति । बाधादिदोषविषयकनिश्चयस्येत्यर्थः । यतूस्थलीयेति - निर्वह्निः पर्वतो वह्रिमानित्यादिस्थलीयेति । बाधादेर्शानस्य = वह्नयभावविशिष्टवह्नयभावादिमपर्वतादिरूपबाधादिनिश्चयस्य ।
अगत्येति । निर्वह्निः पर्वतो वह्निमानित्यादिशानस्याहार्यतया तद्विरोधित्वस्याप्रसिद्धया तादृशबाधादावनुगतधर्मस्याऽसम्भवेनोपायान्तराऽभावादिति भावः ।
निवेश इति । तावभिन्न भिन्नत्वघटकप्रथमभेदप्रतियोगिविधयेत्यादिः । तथा च तत्तद्दोषभिन्न भिन्नत्वमेव तादृशस्थले लक्षणमित्याशयः।
ननु यदि तावद्दोषभिन्न भिन्नत्वं लक्षणं तदा हृदो वह्निमानित्यादौ बाधायेकदेशे केवलहदादावतिव्याप्तिः, वह्नयभावविशिष्टहृदादेः शुद्धह्वदाद्यभिन्नतया तादृशविशिष्टहृदादिरूपदोषभिन्नत्वस्य शुद्धहदे विरहात् तादृशदोषादिभिन्नघटादिभिन्नत्वस्यैव केवलहदादौ सत्त्वात् । . केवलहदादौं वहयभावविशिष्टहृदादिभिन्नत्वाभ्युपगमें तत्रातिव्याप्तिवारणेऽपि सर्वमाकाशवदित्यत्राकाशाभाववत्सर्वरूपबाधेऽव्याप्तिः, अाकाशाभाववत्सर्व भिन्नत्वस्याप्रसिद्धया तावद्भिन्नभिन्नत्वस्य तत्र वक्तुमशक्यत्वात् आकाशाभावविशिष्टसर्वत्वस्य सर्वत्र विद्यमानतया केवलान्वयित्वादित्याह अनचेति । निरुक्तलक्षणे चेत्यर्थः।।
निरक्तातिव्याप्त्यव्याप्ती वारयति तत्तद्विशिष्टेति । तथा च दोषादौ न
"Aho Shrutgyanam"