________________
२०६
अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
® दीधितिः ® तादृशावगाहित्वप्रसिद्धिराहार्यज्ञान एवाभ्युपेतव्या, अनन्यगतिकत्वात् ।
गादाधरी अन्वयनिरूपिता, प्रकृतहेतुनिष्ठा साध्यनिरूपितेति यावत् , सा चात्यन्ताभावान्योन्याभावभेदेन भिन्ना अव्यभिचरितत्व-हेतुव्यापकसाध्यसामानाधिकरण्यरूपा नानाविधैव ग्राह्या, अतोऽत्यन्ताभावादिगर्भव्याप्तिज्ञाने अन्योन्याभावादिगर्भव्यभिचारज्ञानस्य व्यापकत्वादिज्ञाने साध्याभावववृत्तिहेत्वादिज्ञानस्य ग्राह्याभावाद्यनवगाहितया अविरोधित्वेऽपि न क्षतिः । व्यतिरेकतः-व्यतिरेकनिरूपिता, साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपा, ग्राह्या व्याप्तिपदेन विवक्षणीया, तथा च तत्तद्व्याप्तिप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताप्रतियोगित्वकूटाभावो निवेशनीय इति भावः ।
ननु निर्वह्निः पर्वतो वह्निमानित्यादौ पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्टयाचगाहित्वमेवाप्रसिद्धमिति तत्र कथं लक्षणसमन्वय इत्यत आह तादृशावगाहित्वप्रसिद्धिरिति ।
___ चन्द्रकला मरिणमन्त्रादिन्यायेनेत्यादिः । इदन्तु तत्त्वम् , प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्वप्रकृतसाध्यव्याप्यहेतुवैशिष्ट्यावगााह्त्वोभयाभाव इत्यादौ साध्यनिरूपिता व्या:सर्यदि साध्याभावव्यापकाभावप्रतियोगिहेतुरूपव्यतिरेकव्याप्तिस्वरूपा तद। सर्वमनित्यं प्रमेयस्वादित्यादौ नित्यत्वब्यापकीभूताभावाप्रतियोगिल्वविशिष्टहेतुरूपानुपसंहारित्वे लक्षणसमन्वयसम्भवेऽपि धूमवान् वहेरित्यादौ धूमाभावववृत्तित्वविशिष्टवह्नयादिरूपव्यभिचारादावव्याप्तिः, निरुक्तव्यभिचार निश्चयस्य व्यतिरेक व्याप्तिग्रहाऽप्रतिबन्धकतया ताहशनिश्चयोचरजातायां अयं धूमवान् धूमव्यतिरेकव्यातिविशिष्टवह्निमांश्चेत्याकारकानुमितौ तादृशोभयाभावस्याऽसत्वात् ।
यदि च तादृशी व्याप्तिरन्वयव्याप्तिस्तदा व्यभिचारादौ लक्षणसमन्वयसम्भवेऽपि तादृशनित्यत्वव्यापकीभूताऽभावाप्रतियोगित्वविशिष्टप्रमेयत्वरूपेऽनुपसंहारित्वेऽव्याप्तिः साथ्याभावववृत्तित्वादिरूपान्वयव्याप्तिज्ञान प्रति निरुक्तानुपसंहारित्वनिश्चमस्याऽप्रतिबन्धकतया तादृशनिश्चयाव्यवहितोत्तरोत्पन्नानुमितिसामान्यान्तर्गतायां सर्वमनित्यं अनित्यत्वान्वयव्याप्तिविशिष्टप्रमेयत्ववच्चेत्यनुमितौ तादृशोभयाभावविरहादिति ।
प्रकृतसाध्यनिरूपिता हेतुनिष्ठान्वयव्याप्तिस्तु हेतुव्यापकसाध्यसामानाधिकरण्यरूपा
"Aho Shrutgyanam"