________________
. चन्द्रकलाकलाविलासाख्यटीकाद्वयोपेतम् २०७
® दीधितिः 8 एवञ्च वस्तुमात्रनिश्चयानन्तरं निर्वह्नित्वविशिष्ट वढेरग्रहऽपि न क्षतिस्तस्य विरोध्यविषयकत्वात् ।
गादाधरी आहार्यज्ञान एवेति । निर्वहित्वविशिष्टपर्वते वह्निप्रत्यक्षं जायतामित्याकारकेच्छाजन्यप्रत्यक्ष एवेत्यर्थः ।
विरोधिविषयिताप्रयुक्तत्वनिवेशनप्रयोजनमाह एवञ्चति । विरोधिचिपयिताप्रयुक्तत्वनिवेशे चत्यर्थः । न क्षतिः-न निर्वह्निः पर्वतो वह्निमानित्यादौ घटादावतिव्याप्तिः । तस्य = घटादिनिश्चयस्य, विरोध्यविषयकत्वात् = स्वानन्तरोत्पन्नानुमितिसामान्यनिष्ठतादृशोभयाभावप्रयोज
* चन्द्रकला * साध्याभावववृत्तित्वादिरूपा साध्याभावववृत्ति भिन्नत्वादिरूपा च नानाविधा । सुतरां व्यभिचारोऽपि नानाविधः, हेतुव्यापकसाध्यसामानाधिकरण्यज्ञानं प्रति साध्याभाव-बद् वृतित्वविशिष्ट हेतुरूपव्यभिचारज्ञानस्य तादृशव्याप्तिघटकपदार्थाभावानवगाहितया अप्रतिबन्धकत्वेऽपि न तत्तव्यभिचारेऽव्याप्तिः ।
यद्पावच्छिन्नविषयकनिश्चयाव्यवहितोचरानुमितिसामान्ये विरोधिविषयिताप्रयुक्तः प्रकृतपक्षविशेष्यकप्रकृतलाध्यप्रकारकत्व-प्रकृलसाध्यनिरूपिततत्चद्व्याप्तिप्रकारतानिरूरूरूपितप्रकृतहेतुप्रकारता कलक्टोभयाभाबरूद्रूपबामित्यस्यैव लक्षणार्थतया एक. विधव्यभिचारनिश्चयाव्यवहितोचरानुमितिसामान्ये ताशकूटस्याऽसत्वेन तत्रोमयामावस्याक्षतत्वात् इत्येवं 'अन्वयतः' इत्यादितः 'इतिभाव' इत्यन्तसमुदितग्रन्थतात्पर्यम् ।
ननु आहायज्ञानमात्र निर्वहिपर्वते वह्निवैशिष्ट्यावगाहित्वादेः प्रसिद्धिसम्भवेऽपि तत्राहागत्वमेव कर समर्थनीयमित्यतः आहार्यपदार्थ वक्ति निर्वह्नित्वेति । तथाच विरोधि निश्चयकालीननिरुक्तच्छाजन्यज्ञानत्वमेव तत्राहार्यत्वमितिभावः । तादृशोभयाभावे विरोधिविषयिताप्रयुक्तत्वदलानुपादाने निह्निः पर्वतो वह्निमानित्यादौ बटेऽतिव्याप्ति :. घटत्वावच्छिन्नविषयकनिश्चयाव्यवहितोचराहाकारानुमितेरप्रसिद्धतया तादृशघटपटाअनुमितिसामान्य एव निर्वहिपर्वतधमिकवहिप्रकारकत्वघटितोभयाभावस्य सत्त्वादित्येवं विरोनिविषयिताप्रयुक्तत्वनिवेशप्रयोजनप्रदर्शनपरम् एवञ्चत्यादिदीधितिग्रन्थमवतारयति विरोधीति । विरोधिपदप्रयोजनन्वये दीधितिकृतैव स्वयं प्रदर्शयिष्यते ।
स्वानन्तरेति । स्वं घटादिनिश्चयस्तदुत्तरघटपटाद्यनुमितिसामान्यनिष्ठस्य निर्व
"Aho Shrutgyanam"