________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयापेतम्
ॐ गादाधरी
दकेत्यादिदलद्वयनिवेशस्य व्यावृत्तिः पूर्वोक्तरीत्या बोध्या । विरोधिविषयताप्रयुक्तत्वनिवेशप्रयोजनं स्वयमेवाग्रे वदयति ।
यत्र विषयविशेषे समूहालम्बनज्ञानं न कस्यापि जातं तत्र पक्षतावच्छेदकविशिष्टे साध्यवैशिष्टचावगाहित्व विशिष्टसाध्यव्याप्तिविशिष्टहेतु वैशिष्टयावगाहित्वाभावरूपविशिष्टाभावाप्रसिद्धयाऽव्याप्तिरतो विशिष्टाभावमुपेक्ष्योभयाभावनिवेशः कृतः । तादृशोभयाभावप्रयोजकविरोधिविषयितावत्त्वं यद्रूपविशिष्टविषयकत्वव्यापकं तद्रूपावच्छिन्नत्वं दोषत्वमित्यस्य
* चन्द्रकला *
२०१
पक्षतावच्छेदकसाध्यतावच्छेदकादिव्यावृत्तिरपि पूर्ववदेव बोध्या, अन्यथा हृदो वह्नय माववानित्यादिवाघनिश्चयोत्तरोत्पन्नानुमितिसामान्यान्तर्गतायां द्रव्यं वह्निमत् पक्षतावच्छेदकाद्यघटितयन्यादिप्रकारकत्व
वह्निव्याप्यधूमवच्चेत्याकारकानुमितौ घटितोभयाभावविरहात् पूर्ववदेव बाधादावव्याप्ति संगः स्यादित्यवधेयम् । वक्ष्यतीति दीधितिकार इति शेषः । ननु यद्रूपावच्छिन्न विषयकनिश्चयान्यवहितोत्तरानुमितिसामान्ये प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्व विशिष्टतादृशसाध्यव्याप्यहेतुप्रकारकत्वाभावरूपविशिष्टाभाव एवं विवक्ष्यतां किं तादृशोभयाभावनिवेशेन ? उभयाभावस्य तादृशसाध्यप्रकारकत्वत्व - तादृशहेतु प्रकारकत्व त्योभयत्वै तत् त्रितयनिष्ठावच्छेदकताक प्रतियोगिताकत्वेन गुरुत्वादित्यत आह यत्रेति । यादृशस्थले इत्यर्थः । विषयविशेषे = पक्षादिविषयविशेषे । विषयित्वं सप्तम्यर्थः, तस्य च समूहालम्बनज्ञानेऽन्वयः । तादृशेति पक्षः साध्यवान् साध्यव्याप्य हेतुमांश्चेत्याकारक समूहालम्बनज्ञानमित्यर्थः । तत्र = तादृशस्थले । अव्याप्तिरिति । विशिष्टाभावघटितलक्षणाडव्यासिरित्यर्थः । उभयेति । तादृशसाध्यप्रकारकत्वघटितोभयाभावो निवेशित इत्यर्थः । तथाच विशिष्टाभावस्य लघुत्वेऽपि यादृशस्थले पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेत्याकारकं समूहालम्बनं ज्ञानं न कस्यापि पुरुषादेजति तादृरास्थले पक्षविशेष्यकसाध्य प्रकारकत्वविशिष्टताह शहेतुप्रकारकत्वाऽप्रसिद्ध्या तादृशविशिष्टाभावस्य दोषविषयक निश्चयो तर मनुमितौ वक्तुमशक्यत्वादव्याप्तिरतः प्रत्येकज्ञाने प्रसिद्धस्य तादृशसाध्यादिप्रकारकत्वादेरुभयस्याऽभाव एव वक्तव्यः, लाघवन्त्यकिञ्चित्कमिति भावः ! तादृशोभयेति । प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्व - प्रकृतसाध्यव्याप्यहेतुपकारकत्वोभयाभावप्रयोजकीभूता या विरोधिविषयिता तद्वत्त्वमित्यर्थः । यदरूपेति ।
"Aho Shrutgyanam"