________________
२००
अनुमानगादावर्यां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी
शङ्खादौ पीतत्वादिप्रकार कस्य दोषविशेषजन्यचाक्षुपादेरुत्पत्त्या शङ्खः पीतः शङ्खत्वादित्यादिस्थलीय बाधादावव्याप्तिरतो मानसेति । मानसपदं दोषविशेषाजन्यज्ञानपरं तेन नाहं गौर इत्यादिनिश्चयानन्तरं मिथ्याज्ञानजन्यथासनादिरूपदोषविशेषजन्यात्म विशेष्यकगौरत्वादिप्रकार क्रमानसज्ञानस्योत्पत्तावपि अहं गौर आत्मत्वादित्यादिस्थलीयबाधादौ नाव्याप्तिः ।
एतेन यादृशपक्षसाध्यहेतुकस्थले यद्विषयक निश्चयानन्तरं विरोधिसामप्रयादिवशेन मानसज्ञानं कदापि न जातं तत्राव्याप्तिरित्यपि निरस्तम् । तत्राप्यनुमितिशाब्दबोधादिकमादाय लक्षणगमनसम्भवात् । पक्षतावच्छे
ॐ चन्द्रकला
निश्चयानन्तरं श्राहार्यपक्षादिविशेष्यकं साध्यादिप्रकारकं साध्यव्याप्य हेत्वादिप्रकारकञ्च ज्ञानमुत्पद्यते तादृशदोषेऽव्याप्तिरिति भावः ।
नन्वाहार्य मानसज्ञानसामान्ये तादृशोमयाभावनिवेशेऽपि शंखः पीतः शंखत्वादित्यादौ पीतत्वाभाववान् शंख इत्याकारकत्राघनिश्चयानन्तरं पिचादिदोषवशात् 'शंखः पीतः पीतत्वव्याप्यशंसत्ववाँश्चे' त्याकारकप्रत्यक्षे तादृशोभयाभावविरहेण पीतत्वाभावविशिष्टशंखरूपबाधाव्या तेर्मानसपदेन कथञ्चिद्वारणेऽपि ग्रहं गौर ग्रात्मत्वादित्यादौ गौरत्वाभावविशिष्टात्मरूपबाधाऽव्याप्तिदुवारा स्यात्, निरुक्तबाघनिश्चयोत्तरं मिथ्याज्ञानजन्यवासनारूप दोषवशात् अहं गौरः गौरत्वव्याप्यात्मत्ववांश्चेत्याकारकानाहार्य मानसज्ञानोत्पत्तेरावश्यकतया तत्र प्रकृतपक्षविशेष्यकप्रकृतसाध्यादिप्रकारकrवघटितोभयाभावविरहादतो मानसपदं दोषविशेषाजन्यज्ञानपरमेव वक्तव्यमित्याह शंखो न पीत इत्यादितो बाधादौ नाव्याप्तिरित्यन्तम् । एतेनेति । मानसपदस्य दोषविशेषाऽजन्यज्ञानपरत्वव्याख्याकरणेनेत्यर्थः । विरोधीति चाक्षुषादिसामग्रीवशेने - त्यर्थः । तत्र=तादृशदोषे । दोषविशेषाजन्यज्ञानविवक्षणे न तादृशदोषेऽव्याप्तिरित्याह तत्रेति । यादृशस्थले दोषविषयक ज्ञानोत्तरं मानसज्ञानं न जातं तादृशस्थले इत्यर्थः ।
प्रथमदलं विहाय पक्षे साध्यव्याप्यहेतुमत्त्वावगाहित्वाभावमात्र प्रवेशे बाघ - सत्प्रतिपक्षादावव्याप्तिः, बाधादिनिश्चयाव्यवहितोत्तरोत्पन्नायां साध्यव्याप्यहेतुमान् पक्ष इत्याकारकानुमितौ पक्षे साध्यव्याप्यहेतुवैशिष्ट्या वगाहित्याभावस्यासत्वात् । एवं द्वितीयदलम् परित्यज्य पक्षे साध्यवैशिष्ट्यावगाहित्वाभावमात्रनिवेशे व्यभिचारविरोधस्वरूपासिद्ध्यादावव्याप्तिः, व्यभिचारादिनिश्चयानन्तरं समुत्पन्ना पक्षः साध्यवानत्याकारकानुमितौ पक्षे साध्यवैशिष्ट्या वगाहित्वाभावविरहादित्याह पक्षतेति ।
" Aho Shrutgyanam"