________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
१९९
* गादाधरी * बाधादिनिश्चयानन्तरं पक्षतावच्छेदकावच्छन्ने साध्यादिप्रकार कल्याहाय्यस्य लौकिकस्य च प्रत्यक्षस्य उत्पत्त्या ज्ञानसामान्यमुपेक्ष्यानुभितिसामान्यनिवेशः। यत्पक्षकयत्साध्यकयद्धतुकस्थले यादृशदोषविषयकनिश्चयानन्तरं कस्याप्यनुमितिर्न जाता तत्र वादृशानुमितेरप्रसिद्वयाऽव्याप्तिरतोऽनुमितिस्थलेऽनाहाय्यदोषविशेषाजन्यज्ञानं निवेश्य कल्पान्तरमाहानाहार्येति । तथा च यत्र तादृशानुमित्यप्रसिद्धिस्तत्र तथाविधमानसोपनीतभानादिक" मादायैव लक्षणं सङ्गमनीयमिति भावः।।
बाधादिनिश्चयानन्तरं आहार्यसाध्यादिप्रकारकप्रत्यक्षोत्पत्त्यात भवं ऽव्याप्तिर्चेत्यत हाहानाहार्येति । शक न पीत इत्यादिनिश्चयानन्तरं
* चन्द्रकला सिद्धौ लक्षणगमनसम्भवात् , चैत्रीयाश्रयासिद्धिनिश्च यदशायां मैत्रस्यापि निर्वहिपचतविशेष्यकानुमित्यप्रसिद्धरित्युक्तत्वादिति ध्येयम् । अनुमितिमनिवेश्य यद्पावच्छिनविषयकनिश्चयोत्तरज्ञानसामान्ये इत्युक्तौ हदो वह्निमानित्यादौ वह्नयभावविशिष्ट हृदा. दिरूपबाधादावसम्भवः, बाधादिनिश्चयाव्यवहितोत्तरोत्पन्नज्ञानसामान्यान्तगते वह्निमान् हृदो वह्नयभाववानित्याकारकाहार्यज्ञाने लौकिकनिश्चयात्मकवह्नि मद्ध्दज्ञाने वा हृदादिविशेष्यकवह्नयादिप्रकारकत्वघटितादृशोभयाभात्रा ऽसत्त्वादतस्तादृशज्ञानसामान्य इत्यनभिधाय तादृशानुमितिसामान्ये इत्युक्तमित्याह बाधादिनिश्चयेति । अादिना व्यभिचारादिपरिग्रहः। अनाहार्य मानसशाने वेतिकल्पान्तरोत्थितौ बोनमाह यत्साध्यकेति । यादृशदोषेति यादृशबाधादिदोषार्थकम् । तत्र = तादृशस्थले। तादृशेति । बाधादिदोषविषयकनिश्चयानन्तरमित्यादिः । घटादिविषयार्थकम् । अव्याप्तिरिति सवव तादृशानुमित्यप्रसिद्धरप्रामाणिकत्वात् या शस्थल इत्यादिनाऽज्याति रेवाभिहितेत्यवधेयम् ।
नन्वेवमनाहार्यदोषविशेषाजन्यज्ञानसामान्यनिवेशे वा कथं तादृशस्थलीयदोषे नाऽध्यातिरित्यतो भावमाह तथाचेति । यत्र = यादृशस्थले, तत्र = ताशस्थले । तथाविधेति । दोषविषयकनिश्चयानन्तरम् । घटादिविषय कशानलक्षणासन्निकर्षजन्यप्रत्यक्षादिकमादायैवेत्यर्थः । आदिपदात् तथाविधशाब्दबोधादेरुपग्रहः । लक्षणं संगमनीयमिति । बाधादिदोषविषयकनिश्चयाव्यवहितोत्तरोत्पन्नतादृशप्रत्यक्षादौ तथाविधोभयाभावस्याक्षतत्वादित्याशयः । मानसज्ञाने अनाहार्यत्वविशेषणोपादानप्रयोजनमाह बाधादीति । श्रादिना व्यभिचारिदोषान्तरपरिग्रहः । तेन नानिमासम्भवइत्यस्याऽसंगतिः । सर्वत्र दोषविषयकनिश्चयानन्तरं पाहायपक्षादिविशेष्यकसाध्यादिप्रकारकज्ञानोत्पादे प्रमाणाऽभावादाह अव्याप्तिर्वेति । तथाच याहशदोषविषयक
"Aho Shrutgyanam"