________________
१९८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
गादाधरी छ दोषविषयकनिश्चयनाशे सति तादृशानुभितेरुत्पत्त्या तद्दोपापत्तिरतोऽन्यवधाननिवेशः । एवं दोषविषयकलौकिकनिश्चयाव्यवहितपूर्वमनुमित्युत्पत्या तद्दोषः स्यादिति उत्तरेति । तत्सामानाधिकरण्यमनुमितौ निवेश्यमत एकस्य बाधनिश्चयानन्तरमन्यस्यानुमितावपि न क्षतिः ।
* चन्द्रकला ** तावनिवेश्य तादृशनिश्चयोत्तरमनुमितिसामान्ये इत्युक्तौ हदो वह्निमानित्यादौ वह्नयभावविशिष्ट-हदादिरूपबाधादौ सर्वत्राऽसम्भवः, तादृशनिश्चयस्य विनाशानन्तरं प्रतिबन्धकविरहेण समुत्पन्नायां -दो वह्निमान् वह्निव्याप्यधूमवानित्याद्यनुमिती निरुत्तोभयाभावस्याऽसत्वात् तादृशनिश्चयाव्यवहितोत्तरमनुमितिसामान्ये इत्युक्तौ तु नासम्भवः, वह्नयभावविशिष्टहृदादिनिश्चयस्य हृदादिधर्मिकवह्नयादिप्रकारकबुद्धिप्रतिबन्धकतया तदुत्तरं तादृशानुमितेरुत्पादाऽसम्भवादित्याह दोषविषयकेति । ताह. शेति । पक्षादिविशेष्यकसाध्यादिप्रकारकानुमित्युत्पत्त्यर्थः । अत्र तादृशनिश्चयाव्यवहितोत्तरत्वं तृतीयक्षणसाधारण स्वध्वंसाधिकरणकालध्वंसानधिकरणत्वे सति स्वाधिकरणकालध्वंसाधिकरणल्वरूपमित्यन्यत्र स्फुटीभविष्यति । ननु यद्पावच्छिन्नविषयकनिश्चयाव्यवहितानुमितिसामान्य एवोमयाभावो निवेश्यतां व्यर्थ तादृशोत्तरपदोपादानमित्यत आह एवमिति । या शस्थले वह्नयभावविशिष्टहृदविषयको लौकिकनिश्चयो जातस्तादृशस्थले वह्नयभावविशिष्टहदात्मकबाधादिदोषेऽव्याप्ति:, लौकिकनिश्चयात्मकज्ञानस्य कस्याप्यप्रतिवध्यतया हृदो वह्निमान् वह्निव्याप्यधूमवानित्याकारकानुमित्यव्यवहितोत्तरमपि हृदो वन्यभाववानित्याकारकलौकिकनिश्चयसत्त्वे बाधकाभावात् तादृशलौकिकनिश्चयाव्यवहितपूर्वक्षणोत्पन्नायां तादृशहदादिविशेष्यकवहन्याधुनुमितौ तादृशोभयाभावविरहादिति भावः । तद्दोषः = निरुक्ताव्याप्तिरूपो दोषः। तदुत्तरेति । तादृशनिश्चयाव्यवहितोत्तरमिति वक्तव्यमित्यर्थः । हृदो वन्यभाववानित्याकारकलौकिकान्यनिश्चयपूर्व हृदादौ वन्यायनुमित्युत्पादे तादृशबाधनिश्चय एव व्याहन्येत, निरुक्तानुमितेः निरुक्तबाधबुद्धिप्रतिबन्धकत्वात् , तथाच काव्याप्तिरित्यतो निश्चये लौकिकत्वमुक्तमिति बोध्यम् । ननु चैत्रस्य वह्नयभाववद्धदादिनिश्चयदशायां मैत्रस्य हृदो वह्निमान वह्निव्याप्यधूमवानित्यनुमित्युत्पत्त्या तत्र तादृशोभयाभावविरहात् बाधादाव्याप्तिरत अाह तत्सामानाधीति । यद्रूपावच्छिन्न विषयकनिश्चयसामानाधिकरण्यमित्यर्थः । एकस्य चैत्रादेः । अन्यस्य = मैत्रादेः । न क्षतिः : न बाधादावव्याप्तिः । नत्वसम्भवः, निर्वहःपर्वतो वह्निमानित्यादौ वह्निमत्पर्वतरूपाश्रया
"Aho Shrutgyanam"