________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १९७
* गादाधरी * त्पदं यद्रूपावच्छिन्नपरतयोपवर्णितम् । वलयभावविशिष्टलदादिविषयकस्य ह्रदो वह्निमान्नवेत्यादिज्ञानस्यानन्तरं तादृशलमूहालम्बनानुमित्युत्पत्त्या तद्दोषतादवस्थ्यमतो निश्चयेति । अनाहाययोप्रामाण्यज्ञानानास्कन्दितसंशयान्यज्ञानपरं, तेनाहार्य्यस्याप्रामाण्यज्ञानास्कन्दितस्यापि दोषविषयकनिश्चयस्यानन्तरं तादृशानुमित्युत्पत्तावपि न क्षतिः ।
* चन्द्रकला इत्याकारकवह्नयभावत्वावच्छिन्नविषयकनिश्चयाव्यवहितोचरानुमितिसामान्यान्तर्गतायां हृदो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकानुमितौ ह्रदविशेष्यवाह्निप्रकारकत्व-वह्निव्याप्यधूमप्रकारकत्वयोरभावविरहान्न वह्नयभावत्यविशिष्टेऽतिव्यातिरित्यर्थः । यद्विषयकनिश्चयस्येत्यत्र यत्पदस्य यद्पायच्छिन्नपरत्वानभिधाने ह्रदो वह्निमान् धूमादित्यादौ वह्नभावविशिष्टहृदादिरूपबाधादौ सर्वत्राऽसम्भवः स्यात् , द्रव्यत्वादिना वह्नयभावविशिष्टहृदादिनिश्चयस्यापि यद्विषयकनिश्चयपदेन चत्त शक्यतया तव्यवहितोत्तरानुमितिसामान्यान्तर्गतायां हृदो वह्निमान् वह्निन्यायधूमवानित्यनुमितौ तादृशोभयाभावस्यासत्त्वात् निर्वह्निः पर्वतो वह्निमानित्यादावपि द्रव्यत्वावच्छिन्नह्निमत्पर्वतविषयिताया वह्नयभावप्रकारकबुद्धौ प्रतिबन्धकतानवच्छेश्कया तस्या विरोधिविषयितात्वाऽसम्भवेन तत्प्रयुक्तत्वस्य तादृशोभयाभावे विरहात् तथाविधाश्रयाऽसिद्धावपि लक्षण गमनाऽसम्भवात् इत्याह यद्रपावच्छिन्नपरतयेति । वह्नयभाव-ह्रदत्वादिरूपयद्रूपावच्छिन्नपरतयेत्यर्थकम् । तथाच वह्नयभाव-हृदत्वादिरूपधर्मद्वयावच्छिन्नविषयकनिश्चयाव्यवहितो. त्तरं हृदो वह्निमानित्याद्यनुमित्यनुत्पत्त्या न कोऽपि दोष इति तात्पर्यम् । निश्चयपदं विहाय यद्रूपावच्छिन्न विषयकज्ञानस्य तदुत्चारमनुमितावित्युक्तौ हृदादौ वयादिसाध्यकस्थले वन्यभावविशिष्टहदादिरूपबाधादावव्याप्तिः, हृदो वह्निमान्नवेत्याकारकसंशयस्य वहन्यभाववान् हृद इतिज्ञानभप्रमेत्याकारकाप्रामाण्यज्ञानास्कन्दितवन्यभाववद्हृदज्ञानस्य वह्निमान् हृदो वह्नयभाववानित्याकारकाहार्यज्ञानस्य च वन्यभावविशिष्ट हदत्वरूपयद्रूपावच्छिन्नविषयकतया तादृशसंशयाव्यवहितोत्तरोत्पन्नानुमितिसामान्यान्तर्गतायां -हदो वह्निमान् वह्निव्याप्यधूमवानित्यनुमितौ हृदादिविशेष्यकवह्नयादिप्रकारकत्वघटितोभयाभावस्यासत्त्वात् । अतः अनाहार्याऽप्रामाण्यज्ञानानास्कन्दितसंशयान्यज्ञानपरं यद्विषयकनिश्चयस्येत्यत्र निश्चयपदमभिहितमित्याह वह्नयभावेति । न क्षतिरिति । नाव्याप्तिरित्यर्थः। दोषविषयकसंशयादेः सार्वत्रिकत्वे प्रमाणाभावेनाऽसम्भवासम्भवादितिध्येयम् । यद्विषयकनिश्चयाव्यवहितोत्तरत्वमनुमि
"Aho Shrutgyanam"