________________
१६
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी तौ विरोधिविषयिताप्रयुक्तोभयाभावसत्त्वात् केवलहदादावतिव्याप्तिरतः सामान्य पदं पूरितम् । तथासति हृदादिनिश्चयानन्तरोत्पन्नानुमितिसामान्यान्तर्गतायां हद इत्यादिनिश्चयानन्तरजात-ह्रदो वह्निमान् वह्निव्याप्य. धूमवांश्चत्याद्यनुमितौ विरोधिविषयिताप्रयुक्ततादृशोभयाभावासत्त्वान्नातिव्याप्तिः । ह्रदत्वादिना वह्नयभावविशिष्टहदादिविषयकनिश्चयानन्तरमुक्तसमूहालम्बनानुमित्युत्पत्त्या तादृशविशिष्टस्यापि दोषत्वानुपपत्तिरतो य
* चन्द्रकला * वहथभाव इत्याकारकनिश्चयोत्तरानुमितिसामान्यान्तर्गतायां ह्रदो वह्निमान् वह्निव्याप्यधूमवानित्यनुमितौ हृदविशेष्यकरह्निप्रकारकत्वधटिततादृशोभयाभावस्य पाषाणभयत्ववत्पर्वतनिश्चयोत्तरानुमितिसाभान्यान्तर्गतायां पर्वतो वह्निमान् वहिव्याप्यधूमवांश्चेत्याद्याकारकानुमितौ च पर्वतविशेष्यकवह्निप्रकारकत्वघटिततादृशोभयाभावस्य विरहेण वह्नयभावत्वादेर्यद्रूपानन्तर्गतत्वादिति तु परमार्थः ।।
ननु यद्रूपावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितौ तादृशोभयाभावविवक्षणेनैव सामञ्जस्ये तादृशनिश्चयोत्तरानुमितिसामान्ये उभयाभावनिवेशो निरर्थक इत्यत आह वह्नयभावनानिति । तथाच सामान्यपदानुपादाने हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टह्रदादिरूपवाधायेकदेशे वह्नयभावादी पुनरतिव्याप्तिःस्यात् , वलयमावत्वावच्छिाविषयकनिश्चयाव्यवहितोत्तरयत्किञ्चद्घटाद्यनुमितौ हृदविशेष्यकवह्निप्रकारकत्वाभावस्य वह्नयभावविषयितारूपविरोधिविषयिताप्रयुक्तस्य सत्त्वेन ताहशोभयाभावस्य वर्तमानत्वादितिभावः । सामान्यपदोपादाने तु न तत्रातिव्याप्तिरित्याह तथा सतीति । सामान्यपदोपादाने सतीत्यर्थः। नातिव्याप्तिरिति । वह्नयभाव
* कलाविलासः * वह्निमान् पर्वतश्च पायाणमय इत्याकारकज्ञानविशिष्टज्ञानस्य पर्वतादौ वह्निप्रकारकबद्धिविरोधितया व्यापकाभावप्रयोजकस्य पापाणमयत्ववत्पर्वतविपयित्वस्य सुतरां व्याप्याभावस्याऽपि प्रयोजकत्वादिति चेञ्च ? यद्पावच्छिन्नविषयकनिश्चयोत्तरानुमितित्वव्यापकत्वस्य विरोधिविपग्रिताम्रयुक्तत्वस्य च तादृशोभयाभावाधिकरणतायामेव विवक्षितत्वात् । तथाच ज्ञानविशिष्टज्ञानाव्यवहितोत्तरोत्पन्नघटाधनुमितिनिष्ठोभयाभावाधिकरणतायामेव पापाणमयत्ववत्पर्वतविषयिताप्रयोज्यत्वस्याम्युपगम्यमानतया पापाणमयो न वह्निमानितिज्ञानाऽसमालकालीनपाषाणमयत्ववत्पर्वतविषयकनिश्चयोत्तरजातघटायनुमितिनिष्टोभयाभाबाधिकरणतायाम् पाषाणमयत्ववत्पर्वतविपश्रिताप्रयोज्यत्वस्याऽसत्वादिति ध्येयम् ।
"Aho Shrutgyanam"