________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १९५
8 गादाधरी , न च यादृशविशिष्टविषयितासामान्यप्रयुक्तस्तादृशोभयाभावस्ताहशत्वमित्येव सम्यक् , ह्रदत्वादिविशिष्टविषयितासामान्यान्तर्गतायां हद इत्यादिज्ञानीयविषयितायामुभयाभावप्रयोजकत्वासत्वादतिव्याप्तरनवकाशादिति वाच्यम् , पाषाणमयो न वह्निमानितिज्ञानसहितस्य पर्वतः पाषाणमय इति ज्ञानस्य पवतो वह्निमानितिज्ञानप्रतिबन्धकतया ज्ञानभेदेन विषयिताभेदाभावात् पाषाणमयत्वविशिष्टपर्वतादिविषयितासामान्यस्यैव उभयाभावप्रयोजकत्वात् पाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तदुरित्वात् । हृदो वह्नयभावधानित्यादिह्रदादिविषयकनिश्चयानन्तरोत्पन्नघटाद्यनुमि
* चन्द्रकला * भावत्वावच्छिन्नविषयितासामान्यान्तर्गताया वहन्यभाव इत्याकारकशानीयविषयिताया हृदादिधर्मिकवन्यादिप्रकारकबुद्धिप्रतिबन्धकतानवच्छेदकतया तत्प्रयुक्तत्वस्य हृदविशेष्यकवह्निप्रकारकत्वघटिततादृशोभयाभावे विरहात् प्रतिबन्धकतावच्छेदकविषयिताप्रयुक्तत्वस्यैव प्रतिबध्यतावच्छेदकधर्माऽभावेऽभ्युपगमात् यद्पपदेन वहन्यभावत्वस्योपादानाऽसम्भवादित्युच्यते, तथाप्येतद्विवक्षणं न सम्भवति, पर्वतो वह्निमान् धूमादित्यादौ पाषाणमयत्ववत्पर्वतेऽतिव्याप्त्यापत्तेः, पाषाणमयो न वह्निमान् इत्याकारकज्ञानसमानकालीनपर्वतश्च पाषाणमय इत्याकारकशानीयपाषाणमयत्ववत्पर्वतविषयितायास्तादृशज्ञानाऽसमानकालीनज्ञानीयपाषासमयत्ववत्पवंतविषयिताया ऐक्येन पाषाणमयत्ववत्पर्वतविषयितासामान्यस्यैव पर्वतादिविशेष्यवह्निप्रकारकबुद्धिप्रतिबन्धकतावच्छेदकत्वेन पाषाणमयत्ववत्पर्वतवियितासामान्यप्रयुक्तत्वस्यैव पर्वतादिविशेध्यकववन्यादिप्रकारकत्वघटितोभयाभावे सत्त्वात् पाषाणमयत्ववत्पर्वतत्वस्य यद्रूपपदेन धत्त शक्यत्वात् इत्येवं यद्विषयिताप्रयुक्तस्तादृशोभयाभाव इत्यादिनाऽशंक्य पाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तेढुंरत्वादित्यन्तेन समाहितम् ।
तथाच यद्रूपावच्छिन्नविषयकनिश्चयोत्तरमनुमितिसामान्ये इत्युक्तौ तु न बाधाद्येकदेशेऽतिव्याप्तिनवा पर्वतो वह्निमान् धूमादित्यादौ पाषाणमयत्ववत्पर्वतेऽतिव्याप्तिः,
* कलाविलासः * पाषाणमयत्वविशिष्टपर्वतेति । अथ निरुक्तकल्पे निर्वह्निःपर्वतो वह्निमानित्यत्र पाषाणमयत्ववत्पर्वतेऽतिव्याप्तिर्दुर्वा रैव, निर्वह्निःपर्वतो वह्निमानित्याकारकज्ञानस्याहार्यतयाऽनुमितित्वाऽसम्भवात्, पाषाणमयत्ववत्पर्वतनिश्चयोत्तरानुमितिसामान्यपदेन घटाद्यनुमित्यादेरेव धत्तुं शक्यतया तच निर्वह्निपर्वते वह्निवैशि९ट्यावगाहित्वघटितोभयाभावस्य विरोधिविषयिताप्रयुक्तस्य सत्त्वात, पाषाणमयो न
"Aho Shrutgyanam"