________________
१९४
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
®गादाधरी अभावाधिकरणतायामेव विरोधिविषयताप्रयुक्तत्वस्य निवेश्यतया अधिकरणतायाश्चाभावाभेदेप्यधिकरणभेदेन भिन्नतया विरोधिज्ञानानन्तरोत्पन्नज्ञाने ताशवैशिष्टयावमाहित्वाभावाधिकरणतायां विनिगमनाविरहेण पूर्वज्ञानीयविरोधिविषयिताया अपि प्रयोजकत्वात् ।।
यद्विषयिताप्रयुक्तस्तादृशोभयाभावस्तत्त्वमित्येतावन्मात्रे कृते हृदो वह्नयभाववानित्यादिज्ञानीयवह्नयभावादिविशिष्टह्रदादिविषयिताया इव तदन्तःपातिवह्नयभावत्वादिविशिष्टविषयिताया अपि प्रतिबन्धकतावच्छेदककोटिप्रविष्टतया प्रतिबध्यतावच्छेदकस्य हृदत्वादिविशिष्ट वह्नयादिवैशिघ्यावगाहित्वस्य बिरहप्रयोजकतया बाधायेकदेशे वह्नयभावादिरूपविशिटेऽतिव्याप्तिरिति यद्विषयकनिश्चयाव्यवहितोत्तरानुमितिसामान्यस्य विरोधिविषयिताप्रयुक्तोभयाभाववत्वं निवेशितम् ।
* चन्द्रकला * हृदयम् । अभावाधिकरणतायाम् प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्व-प्रकृतसाध्यव्याप्यप्रकृतहेतुप्रकारकत्वरूपोभयाभावाधिकरणतायाम् । नन्वेवमधिकरणतायां विरो धिविषयिताप्रयुक्तत्वविवक्षणेऽपि कथं तत्र नाव्यासिरित्यत आह अधिकरणतायाश्चेति । तादृशोभयाभावाधिकरणलायाश्चेत्यर्थः । प्रयोजकत्वादिति । तथाच बलिमपर्वतनिश्चयोत्तरोत्पन्न बटाद्यनुमितिनिठायां निर्वहिरर्वतविशेष्यकवह्निप्रकारकस्वटितताहशोमयाभावाधिकरणतायाम् पूर्वज्ञानीयाश्रयाऽसिद्धिविषयिताया अपि विनिगमनाविरहेण प्रयोजकत्वे बाधकाभावात् निरुतोभयाभावाधिकरणतायां विरोधिविषयिताप्रयुक्तत्वस्याक्षततया तादृशाश्रयाऽसिद्धावव्यातिवारणसम्भत्रे पूर्वोक्ताशंका न युक्तत्याशयः।
यद्पावच्छिन्नविषयकनिश्चयाऽव्यवहितोत्तरानुमितिसामान्ये इत्यनभिघाय यद्पावच्छिन्नविषयिताप्रयुक्तः प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्व-प्रकृतसाध्यव्याप्यहेतुप्रकारकनोभयाभावस्तद्रपवत्त्वमित्युक्तौ हृदो वह्निमान् धूमादित्यादौ बा. धायकदेशे केवल सहयभावादावतिव्याप्तिः, पूर्वोक्तयुक्त्या वह्नयभावत्वावच्छिन्न विषयताया अपि हृदादिविशेष्यकवन्यादिप्रकारव बुद्धिप्रतिबन्धकतावच्छेदकल्या तत्प्रयुक्तत्वस्य हृदधर्मिकवनिप्रकारकत्वाभावे आवश्यकत्वेन तादृशप्रकारकत्वघटितोभयाभावे:पि वन्यभावत्वावच्छिन्नविषयितापयुक्तत्वस्य निराबाधत्वात् यद्रुपपदेन केवलवन्यभावत्वस्यापि धत्तं शक्यत्वात् । यद्यपि यद्रूपावच्छिन्न विषयितासामान्यप्रयुक्तस्तादृशोभयाभावस्तद्रूपवत्वमितिविवक्षणे न केवलवहन्यभावादावतिव्याप्तिः, वन्य
"Aho Shrutgyanam"