________________
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् १९३
* गादाधरी 8 प्रामाणिकमिति वाच्यम् , तादृशज्ञानत्वस्य प्रतिबध्यतानवच्छेदकत्वेऽपि तयापकस्य पर्वतत्वावच्छिन्ने वह्नित्वावच्छिन्नाभावप्रकारकज्ञानत्वस्यैव वह्निविशिष्टपर्वतविषयकज्ञानप्रतिबध्यतावच्छेदकतया व्यापकाभावप्रयोजकस्य सुतरां व्याप्याभावप्रयोजकतया तादृशविशिष्टविशेष्यकत्वावच्छिन्नवह्नयादिप्रकारकत्वाभावे तादृशदोषविषयिताप्रयुक्तत्वस्यावश्यकत्वात् ।
न च विरोधिज्ञानोसत्त्वेऽपि निवह्निः पवतो वह्निमानित्यादिज्ञानस्यानाहायस्यानुत्पत्त्या इच्छादिघटिततादृशाहाय्यज्ञानसामग्रथमावस्यैव निवह्नित्वविशिष्टे वह्निवैशिष्टयावगाहित्वाभावप्रयोजकत्वं न तु विरोधिविषयित्वस्य, कचिदप्यक्लुप्तत्वादिति वाच्यम् ,
ॐ चन्द्रकला 0 मात् वह्निमपर्वतरूपाश्रयासिद्धिनिश्चयप्रतिबध्यतावच्छेदकस्य पवन विशेष्यकवह्नयभावप्रकारकत्वस्याऽभावंप्रति तादृशाश्रयाऽसिद्धिविषयितायाः प्रयोजकतया पर्वतविशेध्यकवह्नयभावप्रकारकत्वस्य च निर्वह्निपर्वत विशेष्यकवह्निप्रकारकत्वव्यापकत्वेन व्यापकाभावप्रयोजकोभूतायास्तादृशाश्रयासिद्धिविषयिताया व्यायीभूतस्य निर्वहिप
तविशेष्यकवहिप्रकारकत्वघटिततादृशोभयस्याऽभावं प्रत्यपि प्रयोजकतायाः स्वीकरणीयतया निरुक्तोभयाभावे विरोधिविधयिताप्रयुक्तत्वस्य निर्विवादत्वात्तत्र लक्षणसमन्वयइत्याह तादृशज्ञानत्वस्येति । निर्वह्निविशेष्य कवहितकारकशानत्वस्येत्यर्थः ।
प्रतिबध्यतेति । कस्यापीत्यादिः । तद्व्यापकस्य = निर्वह्निविशेष्यकवह्निप्रकारकशानत्यव्यापकस्य । तादृशविशिष्टेति। निहित्वविशिष्टपर्वतेत्यर्थकम् । ताहशेति । वह्निमत्पर्वतात्मकाश्रयासिद्धिरूपदोषविषयिताप्रयुक्तत्वस्येत्यर्थः । आवश्यकस्वादिति । तथाच क तत्राऽव्याप्ति रिलि भावः ।
ननु निर्वह्निविशेप्यकवह्निप्रकारकशानं जायतामित्याकारिकाया इच्छाया वह्निमान् पर्वत इत्याकारकविरोधिनिश्चयस्य च शून्यतादशायां निर्वह्निःपर्वतो वलिमानित्याकारकाहार्यज्ञानस्यानुत्पाददर्शनात् तादृशेच्छादीनामाहार्यज्ञानसामग्रीत्वं वाच्यम्, एवञ्च सामग्ययभावप्रयुक्त एव निर्वह्निपर्वतविशेष्यकवहिप्रकारकत्वरूपाहार्यज्ञानस्वाभावः नतु वह्निमत्पर्वत विषयितारूपविरोधिविषयिताप्रयुक्तः, तथाच निरुक्तोभयाभावे विरोधिविषयिताप्रयुक्तत्वविरहेण तादृशाश्रयाऽसिद्धावव्याप्तिरित्याशंकते नचेति । वाच्यमितिपरेणान्वयः। कचिदम्यलातत्यादिति । विरोधिविषयितात्वेन प्रयोजकताया इत्यादिः। तथाच वह्निमत्पर्वतरूपाश्रयाऽसिद्धावव्याप्तिरस्त्येवेति
१३
"Aho Shrutgyanam"