________________
अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम्
®गादाधरी विशिष्टाभावप्रयोजकस्य विशेष्यवनिष्ठविशेषणाभावप्रयोजकत्वात् अनाहार्यज्ञानत्वाद्याश्रयानुमितिनिष्ठतादृशविशिष्ट प्रकारकत्वाभावस्य विरोधिविषयिताप्रयुक्तत्वाततेरिति हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदत्वाद्यवच्छिन्ने लक्षणसमन्वयः ।
निर्वह्निः पर्वतो वह्निमानित्यादी तादृशानुमितेरप्रसिद्धावपि वह्निमत्पर्वतादिरूपाश्रयासिद्धथादिविषयकनिश्चयानन्तरप्रसिद्धवटाद्यनुमितिषु अन्यत्र प्रसिद्धपक्षतावच्छेदकविशिष्टविषयकत्वावच्छिन्नसाध्यतावच्छेदकविशिष्टप्रकारकत्वघटितोभयाभाववत्वमक्षतमेवेति तत्र लक्षणसमन्वयः ।
न चाहार्यज्ञानमात्रे प्रसिद्धस्य निर्वह्निपर्वतत्वावच्छिन्नविशेष्यकवह्निप्रकारकज्ञानत्वस्य बिरोधिविषयकज्ञानप्रतिबध्यतानवच्छेदकतया ताह. शधर्मावच्छिन्ने वह्नयादिप्रकारकत्वस्याभावे विरोधिविषयताप्रयुक्तत्वम
* चन्द्रकला * विशिष्टहदादिरूपत्राधादि विषयिताप्रयुक्तत्वस्याऽक्षतत्वादिस्येवं समाधो विशिष्टेति । ताराप्रकारकत्वविशिष्टानाहार्यज्ञानत्वाभावप्रयोजकस्येत्यथः ।
विशेष्येति । अनाहार्यज्ञानत्ववनिष्ठविशेषणीभूततादृशप्रकारकत्वाभावप्रयोजकस्वादित्यर्थः । अनाहार्येति । घटाद्यनुमित्यादिनिष्ठस्य हृदादिविशेष्यकवह्नयादिप्रकारकत्वरूपविशेषणाभावस्येत्यर्थः । लक्षणसमन्वय इति । एवमन्यत्राऽपि अनयैव रीत्या विरोधिविषयिताप्रयुक्तत्वं तादृशोभयाभावस्य सुसम्पादनीयमिति हृदयम् ।
निर्वतिःपर्वतो वह्निमान् धूमादित्यादी वह्निमत्पर्वतरूपाश्रयासिद्धिनिश्चयाव्यवहितोत्तरं निर्वह्निःपर्वतो वह्निमान् वह्निन्यायधूमवानित्याद्याकारकाहार्यज्ञानात्मकानुमितेरप्रसिद्धतया उत्पादाऽसम्भवेऽपि तदुत्तरोत्पन्नघटपटाद्यनुमितित्रु तादृशाहार्यज्ञाने प्रसिद्धस्य निर्वह्निपर्वत विशेष्यकवह्निप्रकारकत्वस्य वह्निव्याप्यधूमप्रकारकत्वस्य चाभावसत्त्वात् तादृशाश्रयाऽसिद्धौ निरुक्तरीत्या लक्षणसमन्वयं प्रदय शंकते नचेति । वाच्यमितिपरेणान्वयः। __ तथाच प्रतिबन्धकतावच्छेदकवियिताया एव प्रतिबध्यतावच्छेदकधर्भाभावप्रयोजकतया आहायज्ञानस्याप्रतिबध्यत्वात् तन्मात्रप्रसिद्धस्य वह्नयभाववत्पर्वतविशेव्यकवह्निप्रकारकत्वादेःकस्याऽपि प्रतिष व्यतानवच्छेदकत्वेन पह्निमत्पर्वत विषयिताप्रयुक्तत्वस्य निर्वहिपर्वतविशेष्यकवह्निप्रकारकत्वघटितोयाभावे विरहात् कथं तादृशाश्रयासिद्धौ लक्षणसमन्वय इति समुदितग्रन्थतात्पर्यम् ।
यो व्यापकाभावस्य प्रयोजकःस व्याप्याभावस्याऽपि प्रयोजको भवतीति निय
"Aho Shrutgyanam"