________________
१९१
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
गादाधरी न च तादृशविशिष्टप्रकारकत्वमात्रं न विपरीतनिश्चयप्रतिबध्यतावच्छेदकम् , अपि तु तद्विशेषितानाहायज्ञानत्वं, तत् कथं तत्प्रकारकत्वाभावस्य तथाविधविरोधिविषयिताप्रयुक्तत्वमिति वाच्यम् ,
8 चन्द्रकला प्रयोजकत्वादित्यर्थः । तथात्वात् = प्रयोजकत्वात् । तथाच हृदविशेष्यकवह्निकारकबुद्धिप्रतिबन्धकतावच्छेदिकाया वयभावविशिष्टहदरूपबाधविषयितायाः तादृशनिश्चयोत्तरोत्पन्नघटाद्यनुमितौ वर्तमानो यो हृदविशेष्यकत्रह्निप्रकारकत्वरूपतादृशनिश्चयप्रतिवध्यतावच्छेदकधर्मघटितोभयाभावः तं प्रति प्रयोजकतया तादृशबाधनिश्चयीयविषयिताया विरोधिविषयि तात्वं निर्विवादमिति भावः ।
ननु वह्नयभाववान् हुद इत्याद्याकारकनिश्चयोत्तरं वह्निमान् हृदो वह्नयभाववानित्याद्याकारकाहार्यज्ञानोपपत्तये विशेष्यकवह्निप्रकारकत्वविशिष्टानाहार्यज्ञानत्वमेव तादृशनिश्चयप्रतिबध्यतावच्छेदकं वाच्यम् , एवञ्च कथं वह्नयभाव विशिष्टहदरूपबाधादौ लक्षणसमन्वयः? वह्नयमावविशिष्टहृदादिविषयिताया हृदविशेष्यकवह्निप्रकारकत्वविशिष्टानाहार्यज्ञानस्वरूपतादृशबाधनिश्चयप्रतिवध्यतावच्छेदकधर्माभावं प्रत्येव प्रयोजकतया हृदविशेष्यकवहिप्रकारकत्वघटितोभयाभावाऽप्रयोजकत्वादित्युभयाभावे विरोधिविषयिताप्रयुक्तत्वविरहादित्याशंकते नचेति । वाच्यमितिपरेणान्वयः ।
ताहशेति । हृदादिविशेष्यकवह्नयादिप्रकारकत्वमात्रमित्यर्थः। विपरीतेति । वह्नयभावविशिष्टहदादिरूपयाधादिनिश्चयप्रतिबध्यतावच्छेदकं नेत्यर्थः । तद्विशेषितेति । हृदादिविशेष्यकवयादिप्रकारकत्व विशिष्टानाहायज्ञानत्वमित्यर्थः । तत्प्रकारकेति । हृदविशेष्य कवलयादिप्रकारकत्वाभावस्येत्यर्थः । तथाविधेति । वह्नयभावविशिष्टहृदादिनिरूपितविषयितात्मकविरोधिविषियताप्रयुक्तत्वमित्यर्थः ।
हृदादौ वह्नयाद्यभावनिश्चयप्रतिबध्यतावच्छेद कताया हृदादिविशेष्यकवह्नयादिप्रकारकत्वे विरहादित्याशयः ।
यो विशिष्टाभावस्य प्रयोजकःस विशेष्यवति वर्तमानस्य विशेषणाभावस्यापि प्रयोजको भवतीति नियमात् हृदविशेम्पकवह्नयादिप्रकारकत्वविशिष्टानाहार्यज्ञानत्वाभावप्रयोजिकाया वह्नयायभावविशिष्टहृदादिविषयिताया विशेष्यीभूतानाहायज्ञानत्वविशिष्टायां घटाद्यनुमितौ वर्तमाने विशेषणीभूतहदादिविशेष्यकवह्नयादिप्रकारकत्वस्याभावेऽपि प्रयोजकताया आवश्यकतया तादृशप्रकारकत्वघटितोभयाभावे वह्नयाद्यभाव
"Aho Shrutgyanam"