________________
१६० अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
® गादाधरी ® वह्नयभावविशिष्टह्रदत्वावच्छिन्नविषयकनिश्चयानन्तरं ह्रदो वह्निमान वह्निव्याप्यधूमांश्चैत्याकारकानुमितेः कदाचिदप्यनुत्पत्त्या घटाधनुमितयः एव तादृशनिश्चयाव्यवहितोत्तरानुमितिसामान्यान्तर्गतास्तासु च हृदंत्वादिविशिष्टे यत् वह्नित्वाद्यवच्छिन्नवैशिष्ट्यावगाहित्वं, वह्नित्वावच्छिन्नवह्निव्याप्तिविशिष्टधूमत्वावच्छिन्नवैशिष्ट्यावगाहित्वश्व, तदुभयाभाववत्त्वमक्षतमेव, तत्र तादृशनिश्चयीयविरोधिविषयिताप्रयुक्तत्वमपि, स्वनिष्ठप्रतिबन्धकतावच्छेदकधर्मस्य स्वानन्तरोत्पन्नज्ञाननिष्ठप्रतिबध्यतावच्छेदकधमाभावप्रयोजकत्वात्, तत्र ह्रदत्वादिविशिष्टविशेष्यकत्वावच्छिन्नवह्निस्वादिविशिष्टप्रकारकत्वावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकीभूताया ह्रदत्वावच्छिन्नविशेष्यकत्वावच्छिन्नवह्नित्वावच्छिन्नाभावीयप्रकारितायास्तादृशवह्नित्वादिविशिष्टप्रकारकत्वघटितोभयाभावे तथात्वात् ।
* चन्द्रकला * एवं हृदो वह्निमान् धूमादित्यादौ धूमाभावविशिष्टह्रदत्वरूपस्वरूपासिद्धित्वावच्छिन्न विषयकनिश्चयोत्तरं जायमानायां हृदो वह्निमान् हृदो घटवान्वेत्याद्याकारकानुमितौ हृदादिधर्मिकवह्नयादिप्रकारकत्वसत्त्वेपि वह्निव्याप्यधूमप्रकारकत्वविरहेण ताहशोभयाभावस्य तत्र वत्तेमानतया धूमाभावविशिष्टह्रदरूपस्वरूपासिद्धावपि लक्षणसमन्वयः।
धूमवान वह्नरित्यादौ धूमाभावववृत्तित्वविशिष्ट वह्निरूपव्यभिचार निश्चयोत्तरं व्यभिचारनिश्चयप्रतिबध्याया धूमव्याप्तिविषयकधूमव्याप्यवह्निमानयमित्याकारकानुमितेरनुत्पत्त्या तादृशनिश्चयोत्तरमुत्पन्नास्वन्यास्वनुमितिषु धूमव्याप्यवह्निप्रकारकत्वाभावेन तादृशोभयाभावस्यानपायात् धूमाभावववृत्तित्वविशिष्ट वह्निरूपव्यभिचारेऽपि लक्षणसमन्वयो बोध्या, एवमन्यत्राऽपि ।
स्वयमपि लक्षणसमन्वयमाह वह्नयभावेति । तादृशवाधनिश्चयानन्तरमित्यर्थः । कदाचिदप्यनुत्पत्त्येति । हृदादिधर्मिकवह्नयाघभावनिश्चयस्य हृदादिधर्मिकवह्नयाधनुमितिप्रतिबन्धकत्वादित्याशयः । हृदो वह्निमानित्यत्र वलयभाव विशिष्टह्रदरूपवाधविषयिताया विरोधिविषयितात्वं सम्पादयति स्वनिष्ठेति । स्वं तादृशबाधनिश्चयःतनिष्ठो यो हृदधर्मिकवह्नयादिप्रकारकबुद्धिनिरूपित प्रतिबन्धकतावच्छेदकविषयितात्मको धमस्तस्येस्यर्थः । स्वानन्तेति । तादृशवाधनिश्चयोत्तरोत्पन्नघटाद्यनुमितौ वर्तमानो यः तादृशनिश्चयप्रतिबध्यतावच्छेदकस्य हृदधर्मिकवहिप्रकारताकत्वस्याऽभावस्तं प्रति
"Aho Shrutgyanam"