________________
१८६
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
® गादाधरी तथा च यद्पावच्छिन्ननिश्चयाव्यवहितोत्तरानुमितिसामान्यस्य विरोधिविषयिताप्रयुक्तोभयाभाववत्त्वं, ताशरूपावच्छिन्नत्वं दोषत्वमिति समुदितार्थः ।
* चन्द्रकला*
रोधिविषयिताप्रयुक्तत्यमात्रमेव तादृशोभयाभावे विवक्षितं नतु तादृशनिश्चयीयविरोधिविषयिताप्रयुक्तत्वमपि तत्र निवेश्यमिति भावः ।। ___ समुदितलक्षणार्थमाह तथाचेति । तथाच यद्र पावच्छिन्न विषयकनिश्चयाऽन्यवहितोत्तरानुमितिसामान्ये लौकिकसन्निकर्षाऽजन्यदोषविशेषाजन्यज्ञानसामान्ये वा विरोधिविषयिताप्रयुक्तः प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताकत्व-तादृश विशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छि - न्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्न विषयतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताकत्वोभयाभावस्तद्र पवत्त्वं हेत्वाभासत्वमिति समुदितलक्षणार्थः पर्यवसितः ।
__ भवति हि ह्रदो वह्निमान् इत्यत्र वह्नयभावविशिष्ट-हदरूपबाधे लक्षणसमन्वयः, वहयभावविशिष्ट-हदत्वरूपवाधत्वावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितिसामान्यान्तर्गता घटाद्यनुमितयो वह्निव्यायधूमानुमितयश्च, नतु हृदादौ वह्नयाद्यनुमितिस्तादृशी, तादृशानुमिती तादृशबाधनिश्चयस्य प्रतिबन्धकत्वात् निरुक्तघटाद्यनुमितिले बसिव्यायधमाद्यनुमितिषु च प्रकृतपक्षविशेष्यतानिरूपित प्रकृतसाथ्यव्याप्य हेतु प्रकारताकत्वसत्त्वेऽपि प्रकृतपक्षीभूतहृदादिविशेष्यतानिरूपितप्रकृतसाध्यीभूतवह्निप्रकारताकत्वविरहस्य विरोधिविषयिताप्रयुक्तस्य सत्त्वेनोभयाभावस्य तत्राऽशतत्वात् , वह्नयभावविशिष्टहदत्वरूपवाधत्वस्यैव यद्रूपान्तर्गतत्वात् ।
* कलाविलासः * हितोत्तरकालात्मकानुमितिसामान्ये तादृशोभयाभावनिवेशेनैवोपपत्तौ तादृशनिश्चयाव्यवहितोत्तरकालवृत्तित्वार्थकतादृशकालीनत्वाभिधानमनुचितमिति वाच्यम्, तादृशकालीनत्वस्य तादृशनिश्चयाव्यवहितोत्तरकालोत्पन्नत्वार्थकत्वात् , अन्यथा यत्रापेक्षाबुद्धयात्मिका पक्षःसाध्यवान साध्यव्याप्यहेतुमांश्चेत्याकारिकानुमितिः ततो लौकिक. सन्निकर्पजन्यो बाधनिश्चयस्तत्र बाधेऽव्याप्स्यापत्तिः स्यात्, तादृशबाधनिश्चयाव्यवहितोत्तरकालात्मिकायां तादृशकालवृत्तित्वविशिष्टायां वा निरुक्तानुमितौ तादृशोभयाभावस्याऽसत्वात् । तादृशनिश्चयाव्यवहितोत्तरकालोत्पन्नानुमितिनिवेशे तु न तादृशबाधेऽव्याप्तिः, तादृशबाधनिश्चयोत्तरोत्पन्नत्वस्य तादृशापेक्षावुद्धयारिमकायामनुमितौ विरहात् तस्य घटाद्यनुमितौ सत्वेऽपि तत्र तादृशोभयाभावस्याक्षतत्वात् ।
"Aho Shrutgyanam"