________________
१८८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* दीधितिः * नुमितावनाहाय॑मानसज्ञाने वा पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्याचगाहित्वस्य साध्यतावच्छेदकविशिष्टसाध्यनिरूपितव्याप्तिविशिष्टहेतुमत्तावगाहित्वस्य च द्वयोर्व्यतिरेकस्तत्त्वं हेतुदोषत्वम् ।
* गादाधरी* उत्तरपदस्य उत्तर कालपरत्वादिति तु न युक्तं, व्यापकतात्मकायात्यन्तसंयोगस्य प्रकृतेऽविवक्षितत्वादिति । अनुमितो-अनुमितिसामान्ये । द्वयोयतिरेकः इत्यभिसम्बन्धः। तत्त्वम् - तद्रूपावच्छिन्नत्वम् । अत्र च तज्ज्ञानानन्तर ज्ञाननिष्ठतादृशोभयाभावे तज्ज्ञानीयाया एव विरोधिविषयितायाः प्रयोजकत्वात विरोधिविषयितायां तादृशनिश्चयीयत्वकथनं स्वरूपकीर्तनमात्रं न तु तल्लक्षणघटकम् ,
* चन्द्रकला * उत्तरपदस्योत्तरकालपरत्वं स्वीकृत्य तादृशकालत्वव्यापकताया अनुमित्यादौ विवक्षाप्रयोजनाऽभावादाह प्रकृत इत्यादि । अनुमितिसामान्य इति । सामान्यपदोपादानप्रयोजनम् अग्रे प्रदर्शनीयमेवादरणीयम् ।।
ननु विरोधिविषयिताप्रयुक्तत्वनिवेशेनैवोपपत्तौ यद्विषयकनिश्चयस्य विरोधिविषयितेत्यादिना तादृशविषयितायां यद्विषयकनिश्चयीयत्वाभिधानमनर्थकमित्यत आह अत्रचेति । निरुक्तलक्षणे चेत्यर्थः । तज्ज्ञानेति । बाधादिनिश्चयोत्तरजातानुमित्यादौ वत्तमाने प्रकृतपक्षादौ प्रकृतसाध्याद्यवगाहित्वघटितोभयाभावे इत्यर्थः । तज्ज्ञानीयायाः = तादृशबाधादिनिश्चयीयायाः। प्रयोजकत्वात् = प्रयोजकत्वनियमात् । मात्रपदव्यवच्छेद्यमाह नत्विति । लक्षणघटकमिति । तथाच केवल वि
* कलाविलासः काले वर्तमानस्य नानानिश्चयस्यैव बोधात् यथोक्तनिश्वयोत्तरकालस्वस्थ नानाकालेषु वर्चमानतया तत्र च कस्या अप्यनुमितिव्यक्तरसवात् तादृशकालत्वव्यापकत्वस्यानुमितौ विवक्षणेऽसम्भवसम्भवे तादृशव्यापकत्वस्याऽविवक्षितत्वाभिधानमसंगतमितिचेन्न ? यद्रूपावच्छिन्नविषयकनिश्चयविशिष्टानुमितिसामान्ये विरोधिविषयिताप्रयुक्ततादृशोभयाभावस्य विवक्षितत्वात् । वैशिष्ट्यञ्च स्वाव्यवहितोत्तरकालत्वव्यापकत्वसम्बन्धेन । एवञ्च यत्किञ्चिन्निश्चयमादायैव लक्षणसमन्वयसम्भवात् तादृशव्यापकत्वस्याऽविवक्षितत्वमुक्तमिति ध्येयम् । नचानुमितेरपि जन्यतया तादृशनिश्चयाव्यव
"Aho Shrutgyanam"