________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* दीधितिः * अत्र वदन्ति-यछिषयकनिश्चयस्य विरोधिविषयताप्रयुक्तस्तदुत्तरम
* गादाधरी* यद्विषयकनिश्चयस्येति । यद्पावच्छिन्नविषयकनिश्चयस्येत्यथः । उत्तरपदस्य उत्तरकालीनाथ कतया तदुत्तरमितिधातूपस्थाप्यानुमितिरूपक्रियाविशेषण मतो द्वितीया । अग्रिमकल्पे तादृशज्ञानरूपक्रियाविशेषणमतो ज्ञानपदमपि सार्थकम् । तत्पदश्च ताशनिश्चयपरामर्थकम् , उत्तर पदच्चाऽव्यवहितोत्तरार्थकम् , कालाधनोरत्यन्तसंयोगे इत्यनेन द्वितीया अधिकरणे,
® चन्द्रकला समर्थयति उत्तरपदस्येति । लक्षणघटकस्येत्यादिः । उत्तरकालीनार्थकतयेति । तथाचोत्तरकालीनाऽभेदान्वयबोधो धात्वर्थीभूतायामनुमितौ निर्विवाद इति भावः।
अग्रिमकल्पे = अनाहार्य मानसज्ञाने इत्यादौ । सार्थकमिति । उत्तरपदोत्तर द्वितीयाविभक्तिसमर्थनार्थमेव ज्ञानपदमन्यथा अनाहार्यमानसे इत्युक्तावपि सामञ्जस्यसम्भवात् ज्ञानपदं निरर्थकं स्यादिति हृदयम् । इत्यनेन = इतिसूत्रेण । उत्तरपदस्योत्तरकालोनार्थकत्वे अधिकरणे द्वितीया न सम्भवतीत्यत आह उत्तरपदस्येति ।
कलाविलासः ॐ हरिति दिक । अत्र वदन्ति कल्पे काञ्चनमयदो वह्निमान् जलादित्यत्र काञ्चनमयस्वव्यापकीभूताभावप्रतियोगिजलादावतिव्याप्तिवारणाय तृतीयक्षणसाधारणाव्यव. हितोत्तरत्वस्य लक्षणे निवेश्यतया असाधारण्येऽव्याप्तिः, तद्विषयकनिश्चयाव्यवहितोत्तरानुमितौ तादृशोभयाभावाऽसत्त्वादिति चेन ? साध्यव्यापकोभूताभावप्रतियोगिप्रकृतहेतुमत्पक्ष ज्ञान भिन्नत्व-साधारण्यविपषितावत्वैतदुभयाभाववद्यद्रूपाव - च्छिन्नविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितिसामान्ये तादृशोभयाभावस्य विवक्षितत्वात् । श्रव्यापकोभूतविषयिताशून्यज्ञानीयत्वञ्च यद्रूपावच्छिन्न विपयितायामुपलक्षण विधयैव निवेश्यम् । एवञ्च वहिव्यापकीभूताभावप्रतियोगि जलं वह्निव्यापकीभूताभावप्रतियोगिजलवांश्च हद इतिसमूहालम्चनज्ञानमादायैव असाधारण्ये लक्षणसमन्वयसम्भवः, तज्ज्ञानीयवति व्यापकीभूताभावप्रतियोगिजलवद्ध्रदविषयितायां वक्ष्यमाणविरोधिविपयितात्वस्थाप्यक्षतत्वादित्यवधेयम् ।
अत्र कल्पे तृतीयक्षणसाधारणाव्यवहितोत्तरत्वञ्च स्वध्वंसाधिकरणकालध्वंसानधिकरणत्वे सति स्वाधिकरणकालध्वंसाधिकरणत्वरूपम्, स्वं यद्पावच्छिन्न विषयफनिश्चयः । कालावनोरत्यन्तेति । ननु यद्पावच्छिन्नविषयकनिश्चयपदेन नानाविध
"Aho Shrutgyanam"