SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * दीधिति पर्वतावृत्तेर्वा धर्मादित्यादौ न कोऽपि हेत्वाभासः स्यात् , तादृशानुमितेरप्रसिद्धत्वात् । छ गादाधरी पर्वतो वह्नमान् पर्वतावृत्तेरित्यत्र पर्वते पर्वतावृत्तित्वरूपहेतुतावच्छेदकावच्छिन्नवैशिष्ट्यावगाहित्वं नानुमितेः सम्भवति उक्तयुक्तरिति यथाविवक्षितानुमित्यप्रसिद्धिप्रयोजकभेदेन नानास्थलेऽव्याप्तिकथनम् । न कोपि हेत्वाभासः स्यादिति । तथाचापाथेकरूपनिग्रहस्थानत्वेन तथा प्रयोक्तुनिग्रहोपपत्तावपि निर्वह्नित्वेन पर्वते वहः साधने धूमो दुष्ट इत्यादिव्यवहारो दुरुपपाद इति भावः । तादृशानुमितेः = तथाविवक्षितानुमितेः । अप्रसिद्धत्वादिति । आहायपरोक्षज्ञानानभ्युपगमादिति भावः । ___* चन्द्रकला * बवृत्तित्वप्रकारकज्ञानस्यानाहार्यस्यानुपगमादितियुक्तरित्यर्थः । उक्तयुक्तः - स्वस्मिन् स्वाऽवृत्तित्वावच्छिन्नप्रकारकज्ञानस्यानाहार्यस्याननुभविकत्वादिति युक्तः । यथाविवक्षितेति । पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेत्याकारकविवक्षितानुमितेरप्रसिद्धिप्रयोजकत्वं यथा साध्याभावधर्मितावच्छेदककसाध्यप्रकार कज्ञानत्वं तथा पक्षे पक्षावृत्तित्वाद्यवच्छिन्नप्रकारकज्ञानत्वादिकमपीति विभिन्न प्रयोजकज्ञापनाय नानास्थले दीधितिकृताऽव्याप्तिः प्रदर्शितेतितार्पयम् । ननु यादृशबोधत्वावच्छेदेनाहार्यत्वं तादृशबोधेच्छयोच्चरितशब्दस्यैवाऽपार्थकनिग्रहस्थानत्वेन निर्वह्निर्वह्निमानित्यादिवाक्यप्रयोक्तु निग्रहोपपत्तिसम्भवे हेत्वाभास. रूपनिग्रहस्थानाऽसत्त्वेऽपि न क्षतिरित्यतो भावमाह तथाचेति । तथा प्रयोक्तः = निरुक्तवाक्यप्रयोक्तः । दुरुपपाद इति । तथाच निर्वह्नित्वेन पर्वते वह्निसाधने धूमो दुष्ट इत्यादिव्यवहारोपपत्यर्थमेव तादृशस्थले धूमादेः दुष्टस्वमावश्यकमिति भावः ! तथाविवेति । वहिव्याप्यधूमवान् वह्निमांश्च निर्वहिपर्वत इत्याकारकानुमितेरित्यर्थः । श्राहार्येति । अनुमिति शाब्दबोधादेराहार्यत्वानभ्युपगमादित्यर्थः, तेन न प्रतियोग्यप्रसिद्धिरितिध्येयम् । अत्रवदन्तीत्यादिना दोधितिकृदभिहितलक्षणघटकोत्तरपदोत्तरद्वितीयाविभक्ति "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy