________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* दोधितिः* नतद्धेतुकानुमितिप्रतिबन्धकत्वम् वाच्यम् । तथाच निर्वह्निः पर्वतो वह्निमान् पर्वतावृत्तिवह्निमान् वा तद्व्यभिचारिणः,
*गादाधरी * वाच्यम् = तद्पावच्छिन्नपक्षसाध्यहेतुकदोषलक्षणे निवेशनीयम् ।
तथाचेति । निर्वह्निः पर्वतो वह्निमान् इत्यत्र पक्षतावच्छेदकनिर्वह्नित्वविशिष्टपर्वते वह्निवैशिष्ट्यावगाहित्वमनुमितेने सम्भवति, स्व. विरोधिधर्मधर्मितावच्छेदककस्वप्रकारकानाहाय्यज्ञानस्यानभ्युपगमात् । पर्वतः पर्वतावृत्तिवह्निमान् इत्यत्र पर्वते पर्वतावृत्तित्वरूपसाध्यतावच्छेदकावच्छिन्न प्रकारकत्वमनुमितेन सम्भवति स्वस्मिन् स्वावृत्तित्व:द्यवच्छिन्नप्रकारकानाहार्यज्ञानस्याननुभविकत्वात् ।
एवं पर्वतो वह्निमान् वह्निव्यभिचारिण इत्यत्र वह्निव्यभिचारित्वरूपहे. तुतावच्छेदकावच्छिन्ने वह्निव्याप्यत्ववैशिष्ट्यावगाहित्वमनुमितेन सम्भवतोति पूर्वोक्तयुक्तः ।
ॐ चन्द्रकला तथाच पक्षतावच्छेदकताघटकसम्बन्धेन पक्षतावच्छेदकावच्छिन्नत्वस्य साध्यतावच्छेदकताघटकसम्बन्धेन साध्यतावच्छेदकावच्छिन्नत्वस्य हेतुतावच्छेदकताघटकसम्बन्धेन हेतुतावच्छेदकावच्छिन्नत्वस्य च प्रवेशलाभाय तत्पक्षकेत्याद्यभिधानम् , अन्यथा हदो वह्निमान् इत्यादौ कालिकादि सम्बन्धेन दत्वाद्यवच्छिन्नानुमिति सामान्यान्तर्गतायां कालो वह्निमानित्यनुमितो वह्नयभावविशिष्ट-हदादिनिश्चयस्याऽप्रतिबन्धकतया सर्वत्राऽसम्भवापत्तिः स्यादिति हृदयम् ।
पक्षतावच्छेदकाद्यवच्छिन्नविशेष्यताकत्वादिविशिष्टाया अनुमितेरेव लक्षणघटकत्वे निर्वह्निः पर्वतो वह्निमान् धूमादित्यादौ दोघेऽव्याप्तिः, निर्वह्निपर्वतविशेष्यकवह्निप्रकारकानुमितेरप्रसिद्धत्वादित्याह स्वविरोधीति । स्वं वह्नयादिप्रकारस्तद्विरोधी तद्विशिष्टबुद्धिप्रतिबन्धकतावच्छेदकप्रकारिताकधर्मवान् बढ्यभावादिः स एव धर्मितावच्छे. दकं यस्य तादृशस्वप्रकारकज्ञानस्य । तादृशज्ञानस्यानाहायंत्वानभ्युपगमादित्यर्थः । स्वरिमन्निति । स्वं विशेष्यीभूतः पर्वत! दिः तत्र तदवृत्तित्वावच्छिन्नप्रकारताकज्ञानस्याप्याहार्यत्वस्यानुभविकत्वेन तस्यानाहार्यस्याननुमविकत्वादित्यर्थः । वह्निव्यभिचारिणः = वह्नयमावववृत्तिधर्मात् । वहिव्याप्यत्वेति । वह्नयभाववदवृत्तिधर्मवत्त्वावगाहित्यमित्यर्थः । पूर्वोक्तति । स्वविरोधिधर्मधर्मितावच्छेदककवह्नयभाव.
"Aho Shrutgyanam"