________________
१८४ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
8 दीधितिः छ केवलधूमस्य चा वहिव्यभिचारो, विशिष्टधूमस्य वा पर्वतीयवह्निव्यभिचारो न दोपः । लदा तत्सम्बन्धेन तत्र तस्य हेतो? त्वम्, अतस्तद्धविच्छिन्नतत्पशकतधर्मावच्छिन्नतत्साध्यकतद्धविच्छि
* गादाधरी * प्रकृतहेतुकत्वनिवेशेऽपि एतदोषस्य शक्यवारणतया हेतुतावच्छेदकनिवेशनायाह केवलधूमस्येति । वह्निशून्यदेशान्तर वृत्तिधूमव्यक्तिव्यावत्तकविशेषणानवच्छिन्नेत्यर्थः। साध्यतावच्छेदकानिवेशे पूर्व साध्यवत्ताज्ञानविरोधिन्यतिव्याप्तिर्दर्शिता, इदानी व्याप्तिज्ञानविरोधिन्यतिव्याप्तिं दर्शयति विशिष्टधूमस्य वा पर्वतीयवह्निव्यभिचार इति । दोषलक्षण इव दुष्टलक्षणेऽपि पक्षतावच्छेदकादिनिवेशस्यावश्यकतां दर्शयति न वा तत्सम्बन्धेनेति । तत्र = पर्वतत्वावच्छिन्ने वह्नित्वावच्छिन्नवह्निसाधने । तस्य-विशिष्टधूमत्वावच्छिन्नस्य । पक्षादौ पक्षतावच्छेदकादेर्याशसम्बन्धेन विशेषणत्वं यत्रोभिमतं तत्र तत्सम्बन्धेन तदवच्छिन्नत्वं निवेश्यमिति सूचयितुं तत्पक्ष. केत्युक्तम् , पक्षतावच्छेदकादिनिवेशे पक्षादिनिवेशस्याप्रयोजकत्वादिति ।
* चन्द्रकला हेतुतावच्छेदकमनिवेश्य तादृशहेतुनिष्ठप्रकारताकानुमितिनिवेशे तु वह्नयभाववठ्ठत्तित्वविशिष्ट केवलधूमेऽतिव्याप्ति संगमयति केवलधूमस्येति । वह्निशून्येति । वह्नयभाववान् यो देशः प्रभाभण्डलादिः तत्र वर्तमानधूमव्यक्ताववर्त्तमानं यत् विशेषणं सामानाधिकरण्यसम्बन्धेन पर्वताद्यन्यतमत्वं तदनवच्छिन्नधूमस्यैव कैवल्यमित्यथः । साध्यव्याप्येत्यत्र व्याप्त्यंशे निरूपितत्वसम्बन्धावच्छिन्न साध्यनिष्ठप्रकारताकत्वमात्रनिवेशे पर्वतीयवह्निव्याप्यतादृश विशेषणावच्छिन्नधूमवान् पर्वत इत्याकारकानुमितिप्रतिबन्धकनिश्वयविषये पर्वतीयवह्नयभाववत्तित्वविशिष्टतादृशविशिष्टधूमेऽतिव्याप्तिमा पर्वतीयेति । दोषवत्त्वं दुयत्वमित्यत्रापि दुष्टलक्षणे प्रकृतपक्षसाध्यादिनिवेशप्रयोजनं समर्थयति दोषलक्षण इवेति । तथाच दुष्टलक्षणे पक्षतावच्छेदकाद्यप्रवेशे पर्वतो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाभावविशिष्ट पर्वतादेः स्वज्ञान विषयप्रकृतहेतुतावच्छेदकबत्त्वसम्बन्धेन धूमादौ सत्त्वात् पर्वतत्वावच्छिन्ने वहत्वावच्छिन्नसाधने धमो दुष्ट इति व्यवहारापत्तिरशक्यवारणा स्यादतो दुष्टलक्षणेऽपि पक्षतावच्छेदकादिप्रवेश आवश्यक इति भावः । तद्धर्मावच्छिन्नतत्पक्ष केत्यत्र तत्पक्षकत्वाभिधानप्रयोजन दर्शयति पक्षतेति ।
"Aho Shrutgyanam"