________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
१८३ * दोधितः पर्वतस्य महानसीयवतिधूमविरहित्वम् , मेयत्वस्य
गादाधरी प्रकृतपक्षतावच्छेदकावच्छिन्नप्रकृतपक्षकत्वरूपसमुदायदलायैवानिवेशे बोध्यम् । महानसीयेति । महानसीयवह्नयभावो महानसीयधूमाभावो वेत्यर्थः। अनातिव्याप्तिसूचनञ्च प्रकृतसाध्यतावच्छेदक-प्रकृतहेतुतावच्छेदकयोरनिवेशे बोध्यम् । इदमुपलक्षणम्-साध्यहेत्वोरनिवेशेऽपि जलत्वाभावादावतिव्याप्तिर्बोध्या, प्रकृतहेतुतावच्छेदकावच्छिन्नहेतुकत्वानिवेशे पक्षधर्मताज्ञानप्रतिबन्धकतामादायातिव्याप्ति सू चयित्वा व्याप्तिज्ञानप्रतिबन्धकतामादायातिव्याप्ति सूचयति मेयत्वस्येति । वह्निव्यभिचार इत्यनेनान्वयः । अत्रातिव्याप्तिस्तादृशदलसमुदायस्यैव अनिवेशे बोध्या ।
ॐ चन्द्रकला साध्यहेतुनिष्ठप्रकारताकानुमितिनिवेशेऽपि न निस्तारः, पर्वतो महानसीयवह्निमान् वह्निव्याप्यमहानसीयधूमवांश्चेत्याकारकानुमितिप्रतिबन्धके महानसीयवह्नयभाववान् महानसीयधूमाभाववान् वेत्याकारकनिश्चयविषये महानसीयवह्नयाद्यभावविशिष्ट पर्वतादावतिव्याप्त्यापत्तरित्याह अत्रेति । महानसीयवह्नयभावविशिष्टपर्वते महानसीयधूमाभावविशिष्टे तत्र चातिव्याप्त्यभिधानमित्यर्थः । प्रकृतेति । केवलसाध्यादिनिष्ठप्रकारताकानुमितिमात्रविवक्षणे साध्यतावच्छेदकहेतुतावच्छेदकयोरप्रवेश इत्यर्थः । बोध्यमिति । साध्यतावच्छेदकतापर्याप्त्यधिकरणत्वादिनिवेशे तु न तत्राऽतिव्याप्तिः, पर्वतादौ वह्नयादेः साध्यतास्थले वह्नित्वमात्राद्यवच्छिन्नप्रकारताकानुमितेरेव साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नानुमितित्वेन तत्र महानसीयवह्नयाद्यभावविशिष्टपर्वतादिनिश्चयस्याप्रतिबन्धकत्वादित्याशयः। यत्किञ्चिद्धर्मावच्छिन्नप्रकारताकानुमितिनिवेशे पर्वतो जलत्ववान् वह्निव्याप्यजलत्ववान् वेत्याकारकानुमितिविरोधिनि जलवाभाववत्पर्वतादावतिव्याप्तिरित्याह इदमुपलक्षणमिति ।
हेतुतावच्छेदकावच्छिन्नप्रकारताकत्वानिवेशे हेतुमत्पक्षशानविरोधिनि महानसीयघूमायभाववत्पर्वते यथाऽतिव्याप्तिस्तथा व्याप्तिज्ञानविरोधिन्यपि वह्नयभावववृत्तिमेयत्वेऽपि अतिव्याप्तिः वह्निव्याप्यमेयत्ववान् पर्वत इत्याकारकानुमितिमादाय सम्भवतीति सूचयति प्रकृतहेतुतेति । अत्राऽतिव्याप्तिः वह्निव्यभिचारिमेयत्वेऽतिव्याप्तिः । तादृशेति । यकिञ्चिद्ध विच्छिन्नसाध्यव्याप्यप्रकारताकानुमितिमात्र निवेश एव तादृशमेयत्वादावतिव्यासिरिति भावः।
"Aho Shrutgyanam"