________________
अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* दीधितिः * अथ पर्वतत्वेन पक्षत्वे वह्नित्वेन साध्यत्वे विशिष्टधूमत्वेन च हेतुत्वे पर्वताः काञ्चनमयत्वचिरहः, हृदस्य वह्निधूमशून्यत्वम् ,
*गादाधरी * नाऽप्रसिद्धिरतस्तनिवेशप्रयोजनमाह अथेति । पर्वतादेः काञ्चनमयत्वविरह इत्यादी सर्वत्र न दोष इति सम्बध्यते । तथा च पक्षतावच्छेदकाद्यप्रवेशे पूर्वोक्तयुक्तथाऽसम्भवात् , तद्वारणाय यतकिश्चिद्धर्मावच्छिन्नपक्षसाध्यहेतुकानुभितिसामान्यप्रतिबन्धकत्वमेव निवेश्यमिति पर्वतो वह्निमान् धूमादित्यादौ पर्वतादिनिष्ठ काञ्चनमयत्वाभावादावतिव्याप्तिः, तस्यापि काञ्चनमयत्वादिसहितपर्वतत्वादिरूपयत्किञ्चिद्वविच्छिन्नपक्षसाध्यहेतु - कानुमितिप्रतिबन्धकज्ञानविषयत्वादिति भावः । आदिपदश्च वस्त्वन्तरसंग्राहकम् । प्रकृतानुमित्यविषयपदार्थाभावेऽतिव्याप्ति सूचयित्वा तद्विषयसाध्याद्यभावे तां सूचयति हदस्येति । ह्रद निष्ठं वह्निशून्यत्त्वं धूमशून्यत्वञ्चेत्यर्थः । हृदादिनिष्ठाभावेऽतिव्याप्तिसूचनश्च
* चन्द्रकला * नाऽप्रसिद्धिरिति । पक्षतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नपक्षाद्यप्रवेशे निर्वह्निः पर्वतो वह्निमानित्याकारकानुमितेरप्रसिद्धिसम्भवेऽपि पर्वतो वह्निमानित्याकारकानुमिते प्रसिद्धयाऽप्रसिद्धयभिधानमसंगतं स्यादिति भावः । तन्निवेशेति । पक्षतावच्छेदकतायाः पर्याप्यधिकरणत्वादिनिवेशनप्रयोजनमित्यथः । यकिञ्चिद्धर्मावच्छि. नपक्षकानुमितिसामान्यप्रतिबन्धकत्व निवेशे पर्वतो वह्निमान् धूमादित्यादौ काञ्चन. मयत्वाभावविशिष्टपर्वते वह्नयभावविशिष्ट हदे धूमाद्यभावविशिष्ट-हृदादौ चातिव्याप्तिः, काञ्चनमयपर्वतो वह्निमान् वह्निव्याप्यधूमवान् ताशपर्वत इत्याकारिकायाः -हदो वह्निमान् वह्निव्यायधूमवांश्चेत्याकारिकाया अन्यनुमितेः यत्किञ्चिद्धर्मावच्छिन्नपक्षकानुमितित्वेन धत्तुं शक्यतया तादृशानुमितिप्रतिवन्धकतायाः काञ्चनमयत्वाद्यभावविशिष्टपर्वतादिनिश्चये सत्त्वादतः पक्षतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेप्यकत्वस्यानुमिती निवेशः इत्येवं भावमाह तथाचेति !
वस्त्वन्तरेति । घटत्वादिसंग्राहकमित्यर्थः । प्रकृतेति । पर्वतो वह्निमानित्याका. रकप्रकृतानुमित्यविषयीभूतं यत् काञ्चनमयत्वं तदभावेऽतिव्याप्तिमित्यर्थः । तद्विषयेति प्रकृतानुमितिविषयेत्यर्थकम् । पक्षनिष्ठविशेष्यताकत्वस्याप्यनिवेशसूचनाय हदादौ वहयभावेऽतिव्याप्तिरित्याह हृदादीति ।
"Aho Shrutgyanam"