________________
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी *
पर्वतो वह्नयभाववानित्यादौ पर्वतत्वावच्छिन्ननिष्ठ व हित्वावच्छिन्नरूपबाधादेरसंग्रहभयेन यद्रूपावच्छिन्ने धर्मिणि यद्रूपावच्छिन्नप्रकारतानिरूपितयद्रूपावच्छिन्न प्रकार ताक निश्चयत्वेन प्रतिबन्धकता तद्रूपविशिष्ट तद्रूपावच्छिन्न विशेषिततद्रूपावच्छिन्नवत्त्वं दोष इत्यादिविवक्षाया असम्भवात् । अत्र साधननिष्ठ साध्याभाववद्वृत्तित्वादेरिव साध्याभावववृत्तिसाधनादेरपि दोषत्वे क्षतिविरहात् एतावानायासोऽनर्थक इत्यस्वरसः कश्चिदित्यनेन सूचितः ।
यथाव्याख्यातयथाश्रुतार्थे निर्वह्निः पर्वतो वह्निमानित्यादौ प्रकृतपक्ष - तावच्छेदकविशिष्टे प्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारकानुमितेरप्रसिद्धयाऽव्याप्तिर्दर्शयिष्यते, तत्र विशिष्य पक्षतावच्छेदकाद्यप्रवेशे
* चन्द्रकला
मनुचितमितिवाच्यम्, पर्वतो वह्नयभाववानित्यत्र पर्वतनिष्ठवह्निमत्त्रे लक्षणसमन्वयसम्भवात् तत्र वह्नित्वादिना पदार्थान्तरावगाहिज्ञानस्याऽप्रतिबन्धकतया विशिष्ट विषयकत्वेनैव वह्निमत्पर्वत निश्चयस्य तादृशानुमितिप्रतिबन्धकताया आवश्यकत्वादिति वदन्ति ।
ननु स्वरूपसम्बन्धरूप प्रतिबन्धकतावच्छेदकत्वनिवेशेऽपि न हृदादिनिष्ठाभाववच्चेऽतिव्याप्तिः यद्रूपावच्छिन्न विशेष्यतानिरूपितं यद्रूपावच्छिन्नप्रकारतानिरूपितयद्रूपावच्छिन्न प्रकारत्वं प्रकृतानुमितिप्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छेदकतावत् तद्रूपावच्छिन्ने तद्रूपावच्छिन्न विशिष्ट तद्रूपावच्छिन्नवत्त्वं हेतुदोष इति विवक्षया हृदनिष्ठवह्निविशेषिताभाववत्त्वस्यैव दोषत्वसम्भवादित्याशंकते पर्वत इति । असंग्रहभयेन = अव्याप्तिभयेन ।
तथाचोक्तरीत्या स्वरूपसम्बन्ध रूपावच्छेदकत्वविवक्षणे पर्वतो वह्नय भाववानित्यत्र पर्वतनिष्ठवह्नित्वावच्छिन्नवत्त्वरूपवाधेऽव्याप्तिः, पर्वतधर्मिकवलयभावानुमितिम् प्रति निरुक्तवाधनिश्चयस्य पर्वतविशेष्यकवह्नित्वावच्छिन्न प्रकारताकत्वेनैव प्रतिबन्धकतया ताशय पावच्छिन्न प्रकारतानिरूपितयद्र पावच्छिन्नप्रकारताकत्वेनाऽतथात्वात् रूपद्वयस्यैवाऽप्रसिद्धेरिति भावः ।
कश्चिदित्युक्तं समर्थयति साधननिष्ठेति । तथाचोभयोरेव लक्ष्यतया पूर्वोक्तलक्षणमेव सम्यगिति हृदयमितिदिक् ।
दर्शयिष्यते, दीधितिकृतेति शेषः । तत्र = अनुमितौ । पचतावच्छेदकान्वयि विषयत्वं सप्तम्यर्थः । विशिष्येति पक्षतावच्छेदकतापर्याप्त्यधिकरणत्वेनेत्यादिः ।
" Aho Shrutgyanam"
१८१
तत्र