________________
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी - अत्राप्यवच्छेदकत्वं पूर्ववन्नतु स्वरूपसम्बन्धविशेषः । पक्षतावच्छेदकावच्छिन्ननिष्ठकेवलाभावत्वावच्छिन्नवत्त्वादावतिप्रसङ्गात, तदवच्छिन्नधर्मिक तद्रूपावच्छिन्नवत्ताज्ञानत्वस्यापि प्रतिबन्धकतावच्छेदककोटिप्रविष्टत्वात् , अवच्छेदकतापर्याप्तिविवक्षण तु ह्रदत्वावच्छिन्ननिष्ठवह्नयभावत्वाद्यवच्छिन्नवत्त्वेऽव्याप्तः, वह्नित्वादिना घटाद्यवगाहिनो हृदो न वह्निमानित्यादिनिश्चयस्य हृदो वह्निमानित्याद्यनुमितिप्रतिबन्धकतया हृदत्वावच्छिन्नबिशेष्यकवास्तववह्नयभावत्वावच्छिन्नप्रकारकनिश्चयत्वेन न प्रतिबन्धकता, अपि तु तद्विशेष्यकवह्नित्वावच्छिन्न प्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारताकनिश्चयत्वेनैवातस्तादृशमेव रूपं प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणं न तु ह्रदत्वावच्छिन्नधम्भिकवलयभावत्वावच्छिन्नप्रकारकत्वमिति यदुरूपपदेन वह्नयभावत्वाद्यपादानं न सम्भवति,
* चन्द्रकला तानिरूपकत्वम् , अत्रावच्छेदकत्वं यदि स्वरूपसम्बन्धरूपं तदा हृदो वह्निमानित्यादौ हृदनिष्ठाऽभावत्वावच्छिन्नवत्त्वेऽतिव्याप्तिः, हृदधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकतायाः ह्रदत्वावच्छिन्ने धर्मिणि अभावत्वावच्छिन्नविषयत्वावच्छिन्नताया अपि स्वीकरणीयत्वात् ।
नच यद्पावच्छिन्नविशेष्यतानिरूपितयद्रूपावच्छिन्नप्रकारत्वं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतावच्छेदकतापर्याप्त्यधिकरणं तद्रूपावच्छिन्ने तद्रूपावच्छिन्नवत्त्वं हेतु. दोष इत्युक्तौ न हृदनिष्ठाभाववत्त्वेऽतिव्यातिः, हृदविशेष्यतानिरूपितवह्नयभाववत्त्वा. वच्छिन्नप्रकारताया एव ताशप्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणतया तादृशाभावत्वावच्छिन्नप्रकारतायाश्चाऽतथात्वादिति वाच्यम् , तथासति हृदनिष्ठवह्नयभाववत्वेऽव्याप्त्यापत्तेः । ह्रदत्वादिना पदार्थान्तरावगाहिभ्रमादिसाधारण्यानुरोधेन वह्नित्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितहदत्वावच्छिन्न विषयताया एव प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणतया हृदनिष्ठवह्नयभावत्वावच्छिन्नविषयतायास्तथात्वस्य वक्तुमशक्यत्वादित्याह अत्राप्यवच्छेदकत्वमित्यादि । निरुक्तलक्षणेऽप्यवच्छेकदत्वमित्यर्थः । तद्रूपेति । अभावत्वावच्छिन्नवत्त्वानिश्चयस्यापीत्यर्थः । अव्याप्तौ हेतुमाह यतः वह्नित्वादिनेति । तादृशमेव रूपम् = हृदादिविशेष्यकवह्नित्यावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारताकत्वम् । वह्नयभावत्वाद्युपादानमिति । नचैवं पूर्ववदसम्भवसम्भवेऽव्यातिदान
"Aho Shrutgyanam"