________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
__ * गादाधरी साधनादिविशेषणकसाध्याभावववृत्तित्वादिविशेष्यकज्ञानस्य व्याप्त्यादिज्ञानप्रतिबन्धकत्वेऽपि सापाभाववद्वृत्तित्वादेराधेयतासम्बन्धेन साधनीयत्वादिकं न दोषः, साधनादेः साध्याभाववद्वृत्तित्वादिधर्मताविरहात् ।
ॐ चन्द्रकला यादशधर्मप्रकारताकनिश्चयत्वेन प्रकृतानुमितिप्रतिबन्धकत्वं तेन सम्बन्धेन तद्रूपावच्छिन्नवृत्तित्वविशिष्टतद्रूपावच्छिन्नवत्त्वं हेतुदोषः इति पर्यवसितः लक्षणार्थः । __धूमवान् वह्नरित्यादौ वह्नित्वावच्छिन्ने धर्मिणि स्वरूपेण धूमाभावववृत्तित्वधर्मप्रकारकनिश्चयस्य प्रकृतानुमिति प्रतिबन्धकतथा स्वरूपेण वह्नित्वावच्छिन्नवृत्तित्वविशिष्टधूमाभावववृत्तित्ववस्त्रे लक्षणसमन्वयः ।
एवं हृदत्वावच्छिन्ने स्वरूपेण वह्नयभावत्वावच्छिन्नप्रकारकनिश्चयस्यापि हृदादिधर्मिकवहाद्यनुमितिप्रतिबन्धकतया हृदत्वावच्छिन्ननिष्ठ बह्नयभावत्वावच्छिन्न यत्त्वेऽपि लक्षणसमन्वयो बोध्यः ।
ननु धूमवान् वह्ररित्यादौ धूमाभाववद्वृत्तित्वे वह्नित्वावच्छिन्नवत्वमपि दोषः स्यात् , धमाभावववृत्तित्वं वह्नावित्याकारकधूमाभाववद्वृत्तित्वविशेष्यकाधेयतासम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रकारकनिश्चयस्यापि वह्निधर्मिकधूमव्याप्तिविषयकप्रकृतानुमितिप्रतिबन्धकतया तादृशे वृत्तित्वे धर्मिणि वह्नित्वावच्छिन्नवत्त्वस्याक्षतत्वादित्यत आह साधनादीति । आधेयतासम्बन्धेन वह्नयादिविशेषणकधूमाद्यभावव
वृत्तित्वादिविशेष्यकनिश्चयस्येत्यर्थः । आदिना हृदादिविशेषणकवह्नयभावादिविशेष्यकनिश्चयादेः परिग्रहः ।।
साध्येति । धूमाद्यभावववृत्तित्वादेरित्यर्थः । श्रादिपदात् साध्याभावादेः परिग्रहः । साधनीयत्वादिकम् = आधेयतासम्बन्धेन वह्नयादिविशिष्टत्वम् । श्रादिना हृदादिरूपपक्षोयत्वपरिग्रहः। साधनादेः = वह्नयादिरूपहेतोः । अादिना पश्चादेरुपग्रहः । साध्येति । धूमावभाववत्तित्वादिधमताविरहादित्ययाः । अत्राप्यादिना साध्याभावादिरूपवह्नयभावादिपरिग्रहः ।
आधेयतासम्बन्धस्य वृत्त्यनियामकतया तेन सम्बन्धेन वृत्तिमत्त्वरूपधर्मत्वाऽप्रपद्या साध्याभावववृत्तित्वे धर्मिणि यादृशधर्मवत्ताज्ञानस्येत्यनेन ग्राधेयतासम्बन्धेन ढयादिमत्त्वस्योपादानाऽसम्भवाद् वह्नयादेरतादृशवृत्तिस्वधर्मताया वक्तुमशक्यत्वा. इतिभावः। निश्चयत्वावच्छिन्नत्वं प्रतिबन्धकतायां विवक्षितम् , तच्च निश्चयत्वनिष्ठावच्छेदक..
"Aho Shrutgyanam"