________________
१७८
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* दीधितिः * यादृशधम्मिणि यादृशधर्मवत्ताज्ञानमनुमितिप्रतिबन्धकं तस्य धर्मिणस्तादृशधर्मवत्त्वं हेतुदोष इत्यपि कश्चित् ।
* गादाधरी 8 पक्षविशेषादिकमनन्तर्भाव्य धूमो दुष्ट इति व्यवहारस्त्वबाधित इष्यत एवेति दिक् । साधननिष्ठ साध्याभाववद्वृत्तित्वादेरेव व्यभिचारतया प्रसिद्धिन तु तद्विशिष्ट साधनादेरतो न तस्य दोषत्वमिति कश्चिदाह । व्याचष्टेऽपि लक्षणमन्यथैव, अन्यथातिप्रसङ्गात् । तादृशव्याख्यामुपन्यस्यति यादृशेति । यद्रूपावच्छिन्नेत्यर्थकम् । ज्ञानम् = ज्ञानत्वावच्छिन्नम् । तस्य .ध. मिणः = तद्धर्मावच्छिन्नस्य, तेन सम्बन्धेनेति शेषः । तादृशधर्मवत्त्वम् =तद्रूपावच्छिन्नधर्मवत्त्वम् ।
• चन्द्रकला + तथासति पर्वते वह्नः साधने धूमो दुष्ट इतिव्यवहारो न सम्भवति, तत्र दूषधास्वर्थस्य ताशप्रतिबन्धकतावच्छेदकविषयिताकधर्मावच्छिन्नस्याऽप्रसिद्धथा वाक्यार्थाप्रसिद्धय॑वहर्त्तव्यज्ञानाऽसम्भवादित्येवं हृदे इत्यादितो न तथा व्यवहार इत्यन्तसमुदितग्रन्थतात्पर्यम् ।
नन्वेवं पक्षविशेषादिकं परित्यज्य केवलं धूमो दुष्ट इतिव्यवहारः स्यादित्यत अाह पक्षेति । तथाच तादृशव्यवहार इष्ट एवेति भावः। यादृशे धर्मिणोत्यादिदीधितिकारोक्तलक्षणोस्थितौ वीजमाह साधनेति । हेतुनिष्टत्वविशिष्ट साध्याभाववद्वृत्तित्वादेरेव व्यभिचारत्वं नतु साध्याभावववृत्तित्वविशिष्टहेतोस्तथात्वम् इति कस्यचिन्मतमित्याशयः । अतः = साधननिष्ठसाध्याभाववद्वृत्तित्वादेर्व्यभिचारतः। तस्य = साध्याभावववृत्तित्वविशिष्टसाधनस्य ।।
ननु यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकमित्यादि पूर्वोक्तलक्षणेनैवोपपत्ती निरुक्तलक्षणान्तरानुसरणमनर्थकमित्यत आह अन्यथेति । पूर्वोक्तलक्षणार्थस्यादरे इत्यर्थः । अतिप्रसंगादिति । यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वमितिपूर्वोक्तलक्षणादरे साध्याभाववद्वृत्तित्वविशिष्टहेतावतिव्याप्तिः स्यात् , निरुक्तहेतुविषयकनिश्चयत्वव्यापकतायाः व्याप्तिविषयकंप्रकृतानुमितिप्रतिबन्धकतायां सर्ववादिसिद्धत्वादतः प्रकारान्तरेणैव लक्षणं वक्तव्यमिति भावः । ज्ञानत्वावच्छिन्नम् = निश्चयत्वावच्छिन्नम् । तेन तादृशदोषविषयकसंशयादिकमादाय नाऽसम्भवः । तद्रूपावच्छिन्नधमवत्त्वमिति । तथाच यद्रूपावच्छिन्न विशेष्यकयत्सम्बन्धावच्छिन्न
"Aho Shrutgyanam'