________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
® गादाधरी 8 एतल्लाभाय प्रकृतहेतुरित्युक्तम् ।
हृदे वह्नः साधने धूमो दुष्ट इत्यत्र ह्रदत्वावच्छिन्नपक्षकवह्नित्वावच्छिनसाध्यकधूमत्वावच्छिन्नलिङ्गकानुमितिप्रतिवन्धकतावच्छेदकस्वावच्छिन्न - विषयिताकधविच्छिन्नसम्बन्धी धूम इत्यन्वयबोधः, तत्र प्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयिताकधर्मविशिष्ट एवं दुषधातोरर्थः , साधनपदं लक्षणया धूमत्वावच्छिन्नहेतुकानुमितिपरं, तत्र हद इति सप्तम्यन्ताथलदत्वावच्छिन्नपक्षकत्वस्य, वह्नरिति षष्ठयन्तार्थस्य वह्नित्वावच्छिन्नसाध्यकत्वस्य चान्वयः, तादृशानुमित्यन्यितसप्तम्यर्थनिरूपितत्वस्य दुषधात्वथैकदेशे प्रतिबन्धकत्वेऽन्वयः । एवञ्च पर्वते वह्नः साधने धूमो दुष्ट इत्यत्र पर्वतत्वावच्छिन्न पक्षकवह्नित्वावच्छिन्नसाध्यकधूमत्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयताकधमविशिष्टसम्बन्धी धूम इत्येव प्रतीयते, तत्र तादृशधम्मश्चाप्रसिद्ध एवेति न तथा व्यवहारः ।
ॐ चन्द्रकला प्रकृतहेतुरित्युक्तमिति । तथाच स्वज्ञान विषयप्रकृतहेतुतावच्छेदकवत्वसम्बन्धेन दोषवत एव दुष्टत्वाम्युपगमे न वह्निना धूमसाधने रासभो दुष्ट इतिव्यवहारापत्तिः, धूमाभाववद्वृत्तित्वविशिष्ट वह्नित्वावच्छिन्नरूपदोषस्य स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन रासभे विरहात् व्यवहतव्यज्ञानस्यैवाऽसम्भवादिति भावः । हृदो वह्निमान् धूमादित्यादौ हृदे वह्नःसाधने धूमो दुष्ट इतिव्यवहारोपपत्तये हृदपदोत्तरं सप्तम्यर्थो विशेष्यत्वं तत्र हृदत्वरूपपक्षतावच्छेदकावच्छिन्ननिरूपिताधेयतासम्बन्धेन प्रकृत्यर्थस्य ह्रदादेरन्वयः, वह्नरित्यत्र षष्ठयों विधेयत्वम् , सत्र वह्नित्वरूपसाध्यतावच्छेदकावच्छिन्ननिरूपिताधेयतासम्बन्धेन वह्नः प्रकृत्यर्थस्यान्वयः तादृशहदान्वितविशेष्यत्व-वह्नयन्धितविधेयत्वयोश्च निरूपकत्वसम्बन्धेन लाक्षणिकधूमत्वावच्छिन्न हेतुकानुमितिपरायां साधनपदार्थीभूतायां तादृशानुमितावन्वयः, तादृशानुमित्यर्थकसाधनपदोत्तरसप्तम्यर्थनिरूपितत्वस्य च प्रतिचन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नार्थकदुषधात्वर्थेकदेशे प्रतिबन्धकतायामन्वयः, दूषधातूत्तरनिष्ठाथस्य स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वरूपसम्बन्धविशिष्टस्य सम्बन्धिनोऽभेदेन प्रथमान्तार्थे धूमेऽन्वयःस्वीकरणीयः । तथाच ह्रदत्वावच्छिन्नपक्षकवह्नित्वावच्छिन्नसाध्यकधूमत्वावच्छिन्नहेतुकानुमितिनिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकता - वच्छेदकवह्नयभावविशिष्टहदत्वरूपस्वात्मकधर्मावच्छिन्नस्य स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्वरूपसम्बन्धवदभिनो धूम इत्यन्वयबोधस्तत्र पर्यवसितः ।
"Aho Shrutgyanam"