________________
१७६
अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
दीधितिः तद्वांश्च प्रकृतहेतुर्दुष्टः।
8 गादाधरी 8 त्यादिः । तद्वान् तदवच्छिन्नः, दुष्टः= दुष्टपदप्रतिपाद्यः । तथाच हेतौ तादृशदोषानधिकरणत्वेऽपि न क्षतिः । दुष्ट इत्यादौ सामान्यतः सम्बन्धिन एव निष्ठार्थत्वत् । एवं च एकज्ञानविषयत्वादिना वह्नयभाववद्हृदादिरूपदोषस्य धूमादौ सत्त्वेऽपि पर्वतादौ वह्नयादिसाधने तस्य दुष्टत्वव्यवहारविषयतायास्तद्रूपावच्छिन्नपक्षसाध्यहेतुवाचकपदसमभिव्याहारस्थले तद्रूपावच्छिन्नपक्षसाध्यहेतुकानुमितिप्रतिबन्धकतावच्छेदकस्वावच्छिन्ननिरूपितविषयिताकधम्र्मावच्छिन्नसम्बन्धी दुष्टपदेन बोध्यते, ईदृशव्युत्पत्त्या पूर्ववद्वारणेऽपि पूर्ववदेव वह्निना धूमसाधने रासभो दुष्ट इत्यादिव्यवहारो निरुक्तदोषमात्रस्य दुष्टत्वव्यवहारविषयतावच्छेदकत्वे दुर्वार इति प्रकृतहेतुतावच्छेदकविशिष्टसम्बन्धो निष्ठार्थतावच्छेदको वाच्यः ।
* चन्द्रकला दुष्टपदेति दुष्टपदजन्यप्रतीतिविषयतावानित्यर्थः । हेतोः-धमादेः। ताहशेति काञ्चनमयत्वाद्यभाव विशिष्टपर्वतादिरूपदोषानधिकरणत्वेऽपीत्यर्थः । सम्बन्धिनः = सम्बन्धमात्रविशिष्टस्य । निष्ठार्थत्वात् = दूषधातूत्तरनिष्ठाप्रत्ययार्थत्वात् ।
नन्वेकज्ञानविषयतासम्बन्धेन दोषसम्बन्धिन एव दुष्टत्वे वह्नयभाववान् हृदो धुमश्चेत्याकारकैकसमूहालम्बनशानविषयताया धूमे सत्वेऽपि पर्वतादौ वह्निसाधने धूमो दुष्ट इतिव्यवहारो यदि न सम्भवति, तादृशस्थले पर्वतपक्षकवह्निसाध्यकधमहेतुकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नसम्बन्धी धूम इत्येवं समुदितशब्दार्थतया तादृशनिरूपकतावच्छेदकधर्माऽप्रसिद्धथा तादृशवाक्यार्थज्ञानाऽसम्भवेन व्यवहर्त्तव्यज्ञानाऽभावात् , तथापि वह्निना धूमसाधने रासभो दुष्ट इतिव्यवहारापत्तिः स्यात् , वह्निहेतुकधूमसाध्यकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधूमाभाववद्वृत्तित्वविशिष्ट वह्नित्वावच्छिन्नस्य रासभविषयकसमूहालम्बनैकज्ञानविषयतासम्बन्धन सम्बन्धिताया रासभे सत्त्वेन व्यवहर्त्तव्यज्ञानरूपकारणवाधाऽसम्भवादित्याशंक्य प्रकृतहेतुरित्युक्तिं समर्थयति एवञ्चत्यादिना ! सम्बन्धिमात्रस्य निष्ठार्थत्वे इत्यर्थः ।
तद्पावच्छिन्नेति । पक्षतावच्छेदकावच्छिन्न पक्षकसाध्यतावच्छेदकावच्छिन्नसाध्यकहेतुतावच्छेदकावच्छिन्नहेतुकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकस्वात्मकधर्मावच्छिन्न सम्बन्धबोधकत्वव्युत्पत्त्येत्यर्थः । निरुक्तति । लक्षणाकान्तदोषमात्रस्येत्यर्थः । एकज्ञानविषयतासम्बन्धेनेत्यादिः । प्रकृतहेतुतेति । स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्ध इत्यर्थः ।
"Aho Shrutgyanam"