________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* दीधितिः * साध्याभावववृत्ति साधनं, साधनववृत्तिस्साध्याभावो वा हेतुदोषः । येन केनापि सम्बन्धेन
* गादाधरी * साधनवद्वृत्तिः साध्याभाव इति। साधनधर्मिकसाध्याभावववृत्तित्वप्रकारकज्ञानं साधनधर्मिकव्याप्तिमप्रतिबन्धकम् । साधनवति साध्याभाव इति ज्ञानेऽपि साधने साध्याभावववृत्तित्वं तुल्यवित्तिवेद्यतया नियमतो भासत इति तदपि व्याप्तिज्ञानप्रतिबन्धकमितिमताभिप्रायेण । तादृशज्ञाने नियमतस्तदभानेऽपि मणिमन्त्रादिन्यायेन तस्यासमानविशेष्यकस्यापि व्याप्तिज्ञानप्रतिबन्धकत्वमिति प्राचीनमताभिप्रायेण वा । दोष इति ! नतु पक्षतावच्छेदकाभाववत्पक्षकत्वादिमिति शेषः । तथाचालक्ष्यत्वान्न तत्राव्याप्तिरिति भावः ।।
ननु पक्षतावच्छेदकाभाववत्पक्षादीनां हेत्ववृत्तित्वात् कथं हेतौ दुष्टताव्यवहार इत्यत आह येन केनापीति । एकज्ञानविषयत्वादिने
ॐ चन्द्रकला हेतुमनिष्ठसाध्याभावस्य व्यभिचारत्वं संगमयति साधनधर्मिकेति । प्रकृतहेतुविशेष्यकेत्यर्थकम् । साधनववृत्तीति । श्राधेयतासम्बन्धेन हेतुमद्विशेषणकः साध्याभाव इत्यर्थः । इति ज्ञानेपि = इत्याकारकनिश्चयेऽपि । साधने = हेतौ। तुल्यवित्तीति । स्वप्रयोजकसामग्रीजन्यग्रहविषयतया एकज्ञानविषयतया वेत्यर्थः। __ भासत इति । हेतुमनिष्ठसाध्याभाव इत्याकारकज्ञानकाल एव तादृशज्ञानीयसाध्याभावविशेष्यतानिरूपितस्वरूपसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नावच्छेदकता-साध्याभावववृत्तित्वप्रकारतानिरूपितविशेष्यत्वावच्छिन्ना तादृशावच्छेदकतात्वादित्याकारकं समूहालम्बनं तादृशं हेतुनिष्ठसाध्याभावववृत्तित्वावगाहिज्ञानं भवतीति हृदयम् । ___ मतान्तरमाह तादृशज्ञान इति । साधनवन्निष्ठसाध्याभाव इत्याकारकशाने इत्यर्थः । नियमत इति । अनुमानादिनेत्यादिः । तदभानेऽपि = हेतौ साध्याभाववद्वृत्तिल्वाऽविषयकत्वेऽपि । तस्य = हेतुमति साध्याभाव इति निश्चयस्य । तथाच हेतुमनिष्ठसाध्याभावस्य प्राचीनमतमवलम्ब्यव दोषत्वमभिहितमिति भावः।
शेषं पूरयति लत्विति । तत्र = पक्षतावच्छेदकाभाववत्पक्षकत्वे । काञ्चनमयः पर्वतो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाभाववत्पर्वतस्यैव लक्ष्यतया आश्रयासिद्धित्वे ताशपर्वतस्य धूमादिहेतावसत्त्वात् हेतोर्दुष्टत्वव्यवहारो न स्यात् , व्यवहतव्यज्ञानाऽसम्भवादित्याक्षिप्य येन केनापीति दीधितिमुत्थापयति नन्विति । कथमिति । कारणाभावादित्यादिः ।
"Aho Shrutgyanam"