________________
१७४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
दीधि तः एवञ्च पक्षतावच्छेदकादिविरहविशिष्टः पक्षः, पक्षनिष्टस्तद्विरहो वा,
® गादाधरी तादृशाऽभाववपक्षादिरूपतादृशविशिष्टान्तरघटिततयाऽव्याप्तिरित्यत आह एवश्चेति । तादृशविशेषणदाने चेत्यर्थः। आदिपदात् साध्यादिपरिग्रहः । पर्वतादिधर्मिककाम्चनमयत्वादिविशिष्टबुद्धौ पर्वतः काञ्चनमयत्वाभाववानित्यादिधर्मिविशेष्यकनिश्चयस्येव पवते काञ्चनमयत्वं नास्तीत्यादिध: म्मिविशेषणकनिश्चयस्यापि विरोधित्वमानुभविकमतस्तद्विषयस्यापि दोषत्व. माह पक्षनिष्ठ इति । आधेयतासम्बन्धेन पक्षविशिष्ट इत्यर्थः । समुच्चयार्थको वाकारः ।
* चन्द्रकला * तादृशेति विशिष्टान्तराऽघटितत्वविशेषणदाने चेत्यर्थः । तथाच तादृशस्थले काञ्चनमयत्वाभावविशिष्टपर्वत एवाश्रयाऽसिद्धिरिति न विशाष्टान्तरघटितत्वशंकापीति हृदयम् । साध्यादिपरिग्रह इति । तथाच साध्यतावच्छेदकाभावविशिष्टसाध्यमेव साध्याऽप्रसिद्धिः नतु तादृशसाध्यकत्वं, येन विशिष्टान्तरघटितत्वशंका पुनः स्यादिति तात्पर्यम् । __ ननु पर्वतः काञ्चनमय' इत्याकारकवुद्धौ काञ्चनमयत्वाभावविशिष्टपर्वतनिश्चयस्यैव प्रतिबन्धकतया पर्वतनिष्ठकाञ्चनमयत्वाभावनिश्चयस्यातथात्वात् कथं पर्वतादिनिष्ठकाञ्चनमयत्वाभावस्य दोषत्वं दीधितिकृताऽभिहितमित्यत आह पर्वतादिधर्मिकेति । पर्वतादिविशेष्यकेत्यर्थकम् । पर्वते काञ्चनमयत्वं नास्तीति । पर्वतनिष्ठः काञ्चनमयत्वाभाव इत्यादिपर्वतनिष्टप्रकारताकनिश्चयस्यापीत्यर्थः ।
विरोधित्वम् - प्रतिबन्धकत्वम् । आनुभविकमिति । तादृशनिश्चयोत्तरं काञ्चनमयत्वप्रकारकपर्वतविशेष्यकज्ञानस्यानुत्पाददर्शनादित्याशयः । तद्विषयस्य काञ्चनमयत्वाभावः पर्वते इत्याकारकज्ञानविषयविशिष्टस्य अपि । आधेयतेति । स्वरूपसम्बन्धावच्छिन्नेत्यादिः।
ननु काञ्चनमयत्वाभावविशिष्ट पर्वत-पर्वतविशिष्टकाञ्चनमयत्वाभावयोद्धयोरेवाश्रयासिद्धितया तद्विरहो वेल्यत्र वाकारो निरर्थकः, पूर्वस्य व्यवच्छेदाऽसम्भवादतआह वाकार इति । तथाचोक्तसमूहस्यैव दोषत्वसूचनाय वाकार इति भावः ।
* कलाविलासः विच्छिन्नसम्बन्धित्वसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नअर्थाभावेऽन्वयः, ताशाभावस्य निष्टार्थाश्रयेऽन्वयः, श्राश्रयस्य चाभेदेन प्रथमान्तार्थे धूमादावित्या
"Aho Shrutgyanam"