________________
अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम्
* कलाविलासः *
तादृशोभयाभावेति । नचात्र कल्पे पर्वतों वह्निमान् धूमादित्यादौ पापाणमयत्ववत्पर्वतेऽतिव्याप्तिः, पाषाणमयत्ववत्पर्वतत्वावच्छ्रिज्ञ विषयिताव्यापकत्वस्य तादृशोभयाभावप्रयोजक विरोधिविषयितावत्त्वे सच्वादिति तादृशातिव्याप्तिं विहाय यथासन्निवेशे न वैयर्थ्याभित्यभिधानमसंगतमिति वाच्यम्, तादृशोभयाभावप्रयोजकतावच्छेदकवियितात्वावच्छिन्नाधिकरणत्वं यद्रूपावच्छिन्न विषयिताव्यापक मित्यत्यैव विवक्षणीयत्वात् तादृशाधिकरणतायाः पाषाणमयो न वह्निमान् इत्याकारकज्ञानविशिष्टपर्वतश्च पाषाणमय इत्याकारकज्ञान एवं वर्तमानतया तादृशज्ञानाऽसमानकालीनपाषाणमयः पर्वत इत्याकारकज्ञानेऽपि पापाणमयत्ववत्पर्वत विषयितायाः सत्त्वेन तत्र तादृशोभयाभावप्रयोजकविरोधिविपयितावच्वत्य विरहात् तादृशव्यापकत्वर्भगस्यावश्यकत्वात् ।
अन्ये तु तादृशोभयाभावप्रयोजकविरोधिविपयितावत्त्वमित्यादिना तादृशोभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिनांशे यद्रूपावच्छिन्नवैशिष्ट्याव ग्राहित्वं प्रविष्टं तद्रूपावच्छिन्ने तद्रूपावच्छिन्नाभाव-तद्वयाप्यान्यतरविषयितावत्त्वम् यद्रूपावच्छिन्नविपयित्वव्यापकमित्यस्य विवक्षितत्वाच कोऽपि दोष इत्याहुः ।
ननु तादृशोभयाभावप्रयोजक विरोधिविषयितावत्त्वं सद्रूपावच्छिन्न विपयित्वसमानाधिकरणं तद्रूपवत्त्वमित्यस्यैव सम्यक्त्वे व्यापकत्वनिवेशनमफलमितिचेन्न, घटविषयकत्रथभाववद्ह्रदविषयकसमूहालम्बनज्ञानमादाय वटेऽतिव्यायापत्तेः, विषयित्व सामानाधिकरण्यस्य तादृशोभयाभावप्रयोजक विरोधिविपयितावच्चे/ सच्चात् ।
घट.
२०२
नचाव्यापकीभूतविषयिताशून्यत्वविरहादेव न तादृशसमूहालम्बनज्ञानमादाय घटेऽतिव्याप्तिरिति वाच्यम्, याद्दशस्थलविशेषे वचभाववद्भद इति ज्ञानं कदाचिद् घटविषयकं कदाचिच्च पटविषयकमित्यन्यतर विषयकमेव भवति, यदा न भवति तदाप्रामाण्यज्ञानास्कन्दितमेव भवति, तादृशस्थले अव्यापकीभूतविपयिताशून्याप्रामाण्यज्ञानानास्कन्दितवह्न्यभाववद्वदनिश्चयाऽप्रसिद्धा ताशहदरूपबाधेऽव्याप्तिवारणायाव्यापकीभूतविषयिताशून्यज्ञानीयत्वोपलक्षितत्वस्यैव यद्रूपावच्छिन्नविषयितायां विवक्षणीयतया समूहालम्बनतादृशज्ञानीयघटविषयितामादाय घटेऽतिष्यातेरवारणात् । नच तथापि स्वविषयिताप्रयोज्येत्यादिना स्वपदेन घटस्योपादानाऽसम्भवात् कथं घटेऽतिव्याप्तिः सम्भवतीति वाच्यम्, स्वविषयिताप्रयोज्य विशिष्टान्तरविषयिताप्रयोज्योभयाभावप्रयोजकाभावाधिकरणताकं यद् यत् स्वं तदघटितत्वस्य प्रतियोगिकोटौ स्वत्वमन्तर्भाव्य निवेशनीयत्वात् । अन्यथा विरोधिविषयितापदानुपादाने वस्तुमानेऽतिव्याप्तयभिधानस्याऽसंगतिः तु विवेचनीयम् |
स्यादिति
"Aho Shrutgyanam"