________________
चन्द्रकला - कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी *
यत्वम्, अतस्तत् संग्रहसम्भव इति वाच्यम्, एवं सति बाधविशिष्टव्यभि चारादौ स्ववृत्तिबाधत्वव्यभिचारत्वादियावद्धर्मेण सजातीयविशिष्टान्तरस्य व्यभिचारविशिष्टबाधादेः प्रसिद्धावपि तद्घटितत्वाऽसत्त्वेन तत्रातिव्याप्तेः । तस्मात् व्यभिचारादिवटितबाधादेः संग्रहप्रकारोऽये प्रदर्शनीय एवाssदरणीयः ।
१७१
* चन्द्रकला *
समाधानमाह एवं सतीति । स्ववृत्तियावद्धेत्वाभासविभाजकरूपेण साजात्यविवक्षणे सतीत्यर्थः । स्ववृत्तीति । व्यभिचारघटितबाधवृत्तित्राधत्वव्यभिचारत्वादियावद्धर्मेणेत्यर्थः । तदूर्घटितत्वेति व्यभिचारविशिष्ट बाघघटितत्वस्याऽसत्त्वेनेत्यर्थः ।
अतिव्याप्तेरिति । स्ववृत्तिहेत्वाभास विभाजकरूपत्वव्यापकत्वस्य स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकधर्मविशेषणत्वे बाधविशिष्टव्यभिचारेऽतिव्याप्तिः, बाघविशिष्टव्यभिचारत्वरूपस्ववृत्तिचाधत्वादि प्रत्येकसमानाधिकरणं न व्यभिचारत्वं नवा बाघत्वम्, अपितु बाघविशिष्टव्यभिचारत्वरूपत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं व्यभिचारविशिष्टबाघत्वमेव, तदवच्छिन्न विषयकप्रतीतिविषयतावच्छेदकत्वस्य च बाधविशिष्टव्यभिचारत्वेऽसत्त्वात् स्वपदेन बाधविशिष्टव्यभिचारत्वस्योपादातुमशक्यत्वात् प्रमेयत्वविशिष्टव्यभिचारत्वस्य तादृशत्वेन स्वपदग्राह्यत्वसम्भवेऽपि तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्रूपपदेन बाधविशिष्टव्यभिचारत्वोपादानस्यावश्यकत्वादिति भावः ।
अग्रे = अत्रवदन्तिकल्पे । आदरणीय इति । तथाच प्रतिबन्धकताघटितलक्षणे व्यभिचारघटितबाधादावव्याप्तिवारणप्रयासो निरर्थक इत्याशयः ।
* कलाविलासः
चारिवह्निमत्त्वावच्छिन्न विषयकत्वेऽपि तादृशवह्निमच्चावच्छिन्न विषयित्वाऽव्यापकीभूतविषयिताशून्यज्ञानीयत्वोपलक्षितविषयितावत्त्वविरहेण तत्रोभयाभावस्याक्षतत्वातू । प्रमेयत्वविशिष्टिव्यभिचारविषयकमतीतौ तादृशोभयस्यैव सत्त्वेन न तत्रातिव्याप्तिरिति माञ्चः ।
ननु हेत्वाभासविभाजकरूपाणि यावन्ति तत्प्रत्येकाश्रयीभूतं यत् विशिष्टान्तरं द्घटितं यत् स्वं तदघटितत्व निवेशादेव बाधविशिष्टव्यभिचारे नातिव्याप्तिः, बाधविशिष्टव्यभिचारस्यापि बाधत्व- व्यभिचारस्वादिप्रत्येकाश्रयीभूतबाधव्यभिचारघटितस्वात्, व्यभिचारघटितबाधत्वं तु नैतादर्श स्वम्, तदाश्रयवृत्तिबाधत्वाश्रयबाधरूप
"Aho Shrutgyanam"