________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
गादाधरी भिचारत्वादिसत्त्वेन तद्घटकव्यभिचारादेव्यभिचारत्वादिना तत्सजातीयतया तत्संग्रहानुपपत्तेः ।
नच स्ववृत्तियावद्धत्वाभासविभाजकरूपेण साजात्यं विवक्षणीयं, त. थाच बाधादिघटकव्यभिचारादौ बाधत्वाद्यसत्त्वान्न तादृशबाधादिसजाती
* चन्द्रकला * व्यभिचारत्वं तत्समानाधिकरणं ताशवाधत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् धूमव्यभिचारिवाहित्वं तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकताशबाधत्वरूपस्वावच्छिन्नाऽविषयक्रप्रतीतिविषयतावच्छेदकत्वस्य निरुक्तबाधत्वे विरहात् तस्य लक्षणघटकतादृशयद्रूपपदेन धर्तमशक्यत्वात् स्वपदेनैव तादृशबाधत्वस्योपादानसम्भवादित्याह व्यभिचारेति ।।
तद्धटकेति तादृशबाधघटकेत्यर्थ कम् । तत्संग्रहेति व्यभिचारघटितबाधाऽव्याप्ते. रित्यर्थः ।
ननु प्रतियोगिनि स्वत्वान्तर्भावपक्षे स्ववृत्तिहेत्वाभासविभाजकरूपत्वव्यापकं यत् स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं रूपं तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं तादृशस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वमेव यद्रूपे विशेषणं देयम्, व्यापकता च स्वावच्छिन्नविषयित्वावच्छिन्न प्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकत्वसम्बन्धेन । तथाच न व्यभिचारघटितबाधादाकव्याप्तिः, व्यभिचारघटितबाधत्ववृत्तिहेत्वाभासविभाजकरूपत्वस्य बाधत्वेऽपि सत्वेन तत्र व्यभिचारत्वस्योक्तसम्बन्धेन विरहात् व्यभिचारत्वस्य तादृशबाधत्ववृत्तिहेत्वाभासविभाजकरूपत्वाऽव्यापकत्वादित्याशंकते नचेति । वाच्यमितिपरेणान्ययः ।।
स्ववृत्तीति । तादृशबाधत्वादिवृत्तिहेत्वाभासविभाजकरूपत्वव्यापकत्वमित्यर्थः । यावत्पदस्य व्यापकत्वार्थकत्वादित्याशयः। तादृशबाधेति व्यभिचारघटितबाधेत्यर्थकम् ।
* कलाविलासः स्ववृत्तियावद्धत्वेति । ननु धूमव्यभिचारिमत्वरूपस्वसजातीयविशिष्टान्तरधूमध्यभिचारिवह्नित्वरूपव्यभिचारत्वघटितं यत् स्वं धूमव्यभिचारिवह्निमत्वं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य धूमाभाववद्धमव्यभिचारिवह्निमत्त्वरूपबाधत्वे विरहात् व्यभिचारघटितबाधेऽव्याप्तिरशक्यपरिहारेतिचेन्न , स्वसजातीयविशिष्टान्तरघटित यत् स्वं तदघटितत्वपदेन तदवच्छिन्नविषयित्वाऽव्यापकीभूतविषयिताशून्यज्ञानीयत्वोपलक्षितविषयितावत्त्व तदवच्छिन्न विषयकत्वोभयाभावयत्प्रतीतिविषयतावरुछेदकत्वस्य विवक्षितस्वात् , निरुक्तव्यभिचारघटितबाधविषयकप्रतीतेः धूमव्यभि
"Aho Shrutgyanam"