________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १६९
__ॐ गादाधरी ज्ञाननिष्ठविषयितासंबन्धेन व्याप्तिग्रहप्रतिवन्धकताऽनतिरिक्तवृत्तित्वादिरूप. स्य व्यभिचारादिविभाजकस्याऽत्र प्रवेशात्, तादृशरूपस्य च व्यभिचारविशिष्टप्रमेयत्वादिसाधारणत्वादित्याहुः । तन्न, व्यभिचारघटितबाधादावपि विशिष्टान्तराऽघटितत्वाऽघटितव्य
चन्द्रकला तेन प्रमेयत्वविशिष्टव्यभिचारे विशिष्टान्तराऽघटितत्वविशेषणयुक्तस्य तादृशव्यभि. चारत्वस्याऽवर्तमानतया स्वपदेन तस्योपादानाऽसम्भवेऽपि न क्षतिरिति ध्येयम् ।
साध्यसाधनेति । विशिष्टसाध्यसाधनग्रहाऽप्रतिबन्धकनिश्चयनिष्ठविषयितासम्बन्धेनेत्यर्थः। व्याप्तिग्रहति । व्याप्तिग्रहत्वव्यापकप्रतिवध्यतानिरूपित प्रतिबन्धकत्वं यद्रूपविशिष्टनिश्चयत्वस्य व्यापकं तद्रूपस्येत्यर्थः । अत्र-प्रतियोगिकोटिप्रविष्टस्वत्वघटितलक्षणे । व्यभिचारविशिष्टेति । व्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतायाःप्रमेयत्वविशिष्टव्यभिचारत्व इव व्यभिचारविशिष्टमेयत्वत्त्वेडप्यक्षतत्वादितिहृदयम् ।
वस्तुतस्तु प्रतियोगिनि स्वत्वान्तर्भावपक्ष स्वावच्छेदकविषयितानिरूपकतावच्छेदकत्वसम्बन्धेन स्ववृत्तिर्या विशिष्टपक्षसाध्यादिग्रहप्रतिबन्धकतान्यतमप्रतिबन्धकता तेन सम्बन्धेन तद्विशिष्टं यत् स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं रूपं तदवच्छिन्न विषयकप्रतीतिविषयतावच्छेदकं यद् यत् स्वं तत्तदवच्छिन्नविषयकत्वाभावकूटबद्यद्रूपावच्छिन्न विषयकनिश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबन्धकता तद्रूपवत्वं हेत्वाभासत्वमित्येवैतन्मते प्रतिबन्धकताघटितलक्षणार्थो वक्तव्यः । तेन न वाधविशिष्टेऽसिद्धयादिविशिष्टे वा प्रमेयत्वादावतिव्याप्तिः शंकनीया। स्वपदं लश्यतानवच्छेदकप्रमेयत्वविशिष्ट व्यभिचारत्वादिरूपविशिष्टधर्मपरं, सर्वत्रैव तादृशप्रमेयत्ववि. शिष्टव्यभिचारत्वादिकमेव स्वपदेनोपादाय लक्षणं संगमनीयमिति तु युक्तमुत्पश्यामः ।
निरुक्तं मतं दूषयति तन्नेति । तथाच निरुक्तरीत्या व्यभिचारत्वादेर्निर्वचने धूमव्यभिचारिवह्निमान् धूमवान् वह्नरित्यादौ धूमाभाववभूमध्यभिचारिवह्निमद्रूपवाधेऽव्याप्तिस्तादृशवह्निमत्त्वरूपवाधत्ववृत्ति यत् विशिष्टान्तराऽघटितत्वाघटितं तादृशं
* कलाविलासः * धूमाभावववृत्तिवह्निरूपव्यभिचारेऽव्याप्तिः, उक्तव्यभिचारस्य साधनग्रहाऽविरोधिव्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकत्वेन व्यभिचारसजातीयवृत्तिवह्निरूपविशिष्टान्तरसाध्याऽप्रसिद्विघटितत्वात् । अतःसाध्यग्रहाऽविरोधित्वनिवेशः ।
"Aho Shrutgyanam"